पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला ।

‘विभावादयस्त्र​यः समुदिता रसः' इति कतिपये। 'त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः । ‘भाव्यमानो विभाव एव रसः' इत्यन्ये । 'अनुभावस्तथा तथा' इतीतरे। 'व्यभिचार्येव तथा तथा परिणमति' इति केचित् । तत्र ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते-‘विभावानुभावव्यभिचारिभिः संयोगाद्व्यञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्याद्ये । ‘विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिर्भोगाख्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये । ‘विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपाद्दोषाद्रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः' इति तृतीये । ‘विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः इति चतुर्थे । ‘विभावादीनां संबन्धाद्र​सस्य रत्यादेर्निष्पत्तिरारोपः' इति पञ्चमे । 'विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगाद​नुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिर्नटादौ पक्ष इति शेषः' इति षष्ठे । विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे । ‘विभावादिषु सम्यग्योगाच्चमत्कारात्' इत्यष्टमे । तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः । विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरस​व्यञ्जकता-


वादिषु । तथा भाव्यमानोऽनुभावस्तथा रस इतीतरे इत्यर्थः । तथा भाव्यमानो व्यभिचारिभाव एव तथा रसरूपतया परिणमतीत्यर्थः । उक्तार्थानां समूलत्वमाह-तत्रेति । उक्तपक्षसिद्ध्यर्थमित्यर्थः । संयोगादित्यस्य व्याख्या व्यञ्जनादिति । विनिगमनाविरहादाह-स्थाय्युपेति । निष्पत्तिरित्यस्य व्याख्या स्वरूपेणेत्यादि । आद्येऽभिवनगुप्तमते । संयोगादित्यस्य विच्छिद्यार्थमाह–सम्यगिति । द्वितीये भट्टनायकमते । तृतीये नव्यमते । चतुर्थे परे त्वितिमते । पञ्चमे इत्येके इतिमते । अनुमतिरित्यन्तोऽर्थः । अग्रे शेषपूरणम् । षष्ठे इत्यपरे इतिमते । सप्तमे इति कतिपये इतिमते । अष्टमे इति बहव इतिमते । उपसंहरति-तदेवमिति । त्रिषु मतेषु भाव्यमान इत्यादिष्वग्रिमेषु । ननु तत्रैव त्रयाणां किमित्युपादानं येन मतत्रये सूत्रविरोधोऽत आह–विभावेति । निर्धारणषष्ठीयम् । रसान्तरेति । तदुक्तम्-‘व्याघ्रादयो विभावा भयानकस्येव