पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२३
रसगङ्गाधरः ।

लौकिकसुखान्तरसाधारणः । अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभट्टादिग्रन्थस्वारस्येन भग्नावरणचिद्विष्टो रत्यादिः स्थायीभावो रस इति स्थितम् । वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्याद्यवच्छिन्ना भग्नावरणा चिदेव रसः । सर्वथैव चास्या विशिष्टात्मनो विशेषणं विशेष्यं वा चिदंशमादाय नित्यत्वं स्वप्रकाशत्वं च सिद्ध​म् । रत्याद्यंशमादाय त्वनित्यत्वमितरभास्यत्वं च । चर्वणा चास्य चिद्ग​तावरणभङ्ग एवं प्रागुक्ता, तदाकारान्तःकरणवृत्तिर्वा । इयं च परमब्रह्मास्वादात्समाधेर्विलक्षणा । विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानमिति चेत्समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात् । ‘सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्' इत्यादिः शब्दोऽस्ति तत्र मानमिति चेदस्त्यत्रापि ‘रसो वै सः, रसं ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतिः, सकलसहृदयप्रत्यक्षं चेति प्रमाणद्वयम् । येयं द्वितीयपक्षे तदाकारचित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच्छाब्दी । अपरोक्षसुखालम्बनत्वाच्चापरोक्षात्मिका । तत्त्वं वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्ताचार्यपादाः ॥ "भट्टनायकास्तु ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम् । आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलादीनां सामाजिकान्प्रत्य​विनाभावत्वात् । विना विभावमनालम्बनस्य रसादेरप्रतिपत्तेः । न च कान्तात्वं साधारणविभावतावच्छेदकमत्रा-


अनन्तःकरणेति । अन्तःकरणवृत्त्यवच्छिन्नचैतन्यारूपत्वादित्यर्थः । अस्या वृत्तेर्निरवच्छिन्नविषयकत्वादिति भावः । उपसंहरति-इत्थं चेति । स्थितमित्यनेन सूचितश्रुतिविरोधरूपारुचिसिद्धान्तमाह-वस्त्वितिवक्ष्येति । 'रसो वै सः' इत्यादीति भावः । सर्वथैव चेति । उभयथापीत्यर्थः । मतक्रमादाह-विशेषेति । चर्व्य​माणो रस इति प्राचीनव्यवहारोपपत्तये आह-चर्वणा चास्येति । यद्वेति मतेनाह–प्रागुक्तेतिइयं चेति । रसचर्वणा चेत्यर्थः । परेति बहुव्रीहिः । समाधेः सविकल्पकात् । विषयेति । सा च विषयासंवलितशुद्धब्रह्मालम्बनेति भावः । काव्यव्यापारो व्यञ्जना । मात्रपदेन तत्कारणश्रवणादिनिरासः । शाब्दत्वापरोक्षत्वयोर्न विरोध इत्याह-तत्वोतितटस्थ्येन रसेति । स्वसंबन्धराहित्येनेत्यर्थः । विभावं विनैवास्तामत आह–विनेति । अनालम्बनस्य निराधारस्य । अत्रापि वेषेऽपि । अनालिङ्गितत्वं ज्ञानविशेषम् ।