पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


२२
काव्यमाला ।

ज्ञानेनात एवं प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया वास्तवेन निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राग्विनिविष्टवासनारूपो रत्यादिरेव रसः ॥

तथा चाहुः--‘व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथा हि शरावादिना पिहितो दीपस्तन्निवृत्तौ संनिहितान्पदार्थान्प्रकाशयति, स्वयं च प्रकाशते । एवमात्मचैतन्यं विभावादिसंवलितान्र​त्यादीन् । अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः । विभावादीनामपि स्वप्नतुरगादीनामिव रङ्गरजतादीनामिव साक्षिभास्यत्वमविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्य वोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रसे उपचर्येते । वर्णनित्यतायामिव व्यञ्जकताल्वादिव्यापारस्य गकारादौ विभावादिचर्वणावधित्वादावरणभङ्गस्य निवृत्तायां तस्यां प्रकाशस्यावृतत्वाद्विद्यमानोऽपि स्थायी न प्रकाशते । यद्वा विभावादिचर्वणामहिम्ना सहृदयस्य निजसहृदयतावशोन्मिषितेन तत्तत्स्थाय्युपहितस्वस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते । तन्मयीभवनमिति यावत् । आनन्दो ह्ययं न


अत एव ललित इति बोध्यम् । सहकारिभिश्चेत्यस्य चर्व्य​माणैरिति शेषः । आनन्दांशेति । आनन्दांशस्यावरणरूपमज्ञानं यस्येति बहुव्रीहिः । प्रमातृविशेषणमिदम् । अत एव । आवरणनिवृत्तेरेवेत्यर्थः । सकलविषयज्ञानसंभवादिति भावः । प्रमात्रेत्यस्य गोचरीक्रियमाण इत्यत्रान्वयः । आहुर्मम्मटभट्टाः । रत्यादीनित्यत्र प्रकाशयति स्वयं च प्रकाशत इत्यस्यानुषङ्गः । ननु भासनारूपरत्यादीनां तद्भास्यत्वेऽपि विभावादीनां कथं तद्भास्यत्वम् । असाहित्येनासंबन्धादत आह–अन्तःकरणेति । तथा च परम्परासंबन्ध इति भावः । हेतोरविरुद्धमित्यत्रान्वयः । स्वप्नदृष्टान्तमुक्त्वा जाग्रदृष्टान्तमाह-रङ्गेति । नन्वेवमुत्पन्नो नष्टो रस इति व्यवहारो न स्यात्, चैतन्यरूपत्वात्, अत आह-व्यञ्जकेति । बहुपरम्पराभयादाह-आवरणेतिउत्पत्तीति । हेतौ पञ्चमी । उत्पत्तिविनाशयोः सत्त्वादित्यर्थः । व्यापारस्योत्पत्यादेः । ननु विभावादिचर्वणानाशेऽपि स्थायिप्रकाशः कुतो नात आह-विभेति । तस्यां तच्चर्वणायाम् । विद्येति । सूक्ष्मरूपतयेति भावः । मध्ये व्यापारकल्पनजलाघवायाह-यद्वेति । सहृदयस्येत्यस्य चित्तवृत्तिरित्यत्रान्वयः । आनन्दाकारा तद्विषया । समाधौ सविकल्पकसमाधौ । निर्विकल्पके तदनङ्गीकारादिति बोध्यम् । चित्तवृत्तिरिति । सा च काव्यव्यञ्जनामूलेति बोध्यम् । तन्मयीति । आनन्दविषयतया तत्प्रचुरेत्यर्थः । अस्य लौकिकत्वादाह-सुखान्तरेति