पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला ।

हुरामर्शात् । एवं त्वरया सम्यगक्षालनेनोत्तरोष्ठो न निर्मृष्ठरागोऽधरस्तु तदपेक्षया मण्डूषजलरदनशोधनाङ्गुल्यादीनामधिकसंमर्दमावहतीति तथा । किं च सम्यगक्षालनेन नेत्रे जलमात्रसंसर्गाद्दूरमुपरिभाग एवानञ्जने । शीतवशात्तानवाच्च तवं तनुः पुलकितेति । एवं तस्या विदग्धाया गूढतात्पर्यैवोक्तिरुचिता । अन्यथा वैदग्ध्यभ​ङ्गापत्तेः । एवं साधारणेष्वेषु वाक्यार्थेषु मुख्यार्थे बाधाभावात्तात्पर्यार्थस्य झटित्यनाकलनात्कुतोऽत्र लक्षणावकाशोऽनन्तरं च वाच्यार्थप्रतिपत्तेर्वक्तृबोद्धव्यनायकादीनां वैशिष्ट्यस्य प्रतीतौ सत्यामधमपदेन स्वप्रवृत्तिप्रयोजको दुःखदातृत्वरूपो धर्मः साधारणात्मा वाच्यार्थदशायामपराधान्तरनिमित्तकदुःखदातृत्वरूपेण स्थितो व्यञ्जनाव्यापारेण दूतीसंभोगनिमित्तकदुःखदातृत्वाकारेण पर्यवस्यतीत्यालंकारिकसिद्धान्तनिष्कर्षः । एतेन ‘अधमत्वमपकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति । नापि स्वापराधपर्यवसायिदुतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृशं च दूतीसंप्रेषणात्प्राचीनं सोढमेवेति नोद्धाटनार्ह​मितीतरव्यावृत्त्या संभोगरूपमेव पर्यवस्यति' इति यदुक्तम्, तदपि निरस्तम् । विदग्धोत्तमनायिकायाः सखीसमक्षं तदुपभोगरूपस्य स्वनायकापराधस्य स्फुटं प्रकाशयितुमतितमामनौचित्येन प्राचीनानामेव सोढानामप्यपराधानामसह्यतया दूतीं प्रति प्रतिपिपादयिषितत्वादिति दिक् ॥


त्रपापारवश्यात् । तथा निर्मुष्ठरागः । तन्वीत्यस्यार्थमाह-तानवाच्चेति । कृशत्वाच्चेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेत्यर्थः । प्रागुक्तलक्षणापत्तिदोष इह नेत्याह-एवमिति । मुख्यार्थे वापीस्नाने । अनन्तेति । वाच्यार्थप्रतिपत्तेरनन्तरं चेत्यर्थः । वक्री विदग्धोत्तमनायिका । बोद्धव्या दुःशीला दूती । नायकस्तादृशः । आदिना काक्कादिपरिग्रहः । अधमपदेनेति । बोधित इति शेषः । स्वेति । अधमपदप्रवृत्तिनिमित्तमित्यर्थः । साधारणेति । तादृशकर्मान्तरसाधारणेत्यर्थः । दातृत्वरूपेण । स्थित इति । अधमप​दप्रवृत्तिनिमित्तस्य सकलाधमसाधारणस्यैकस्याभावात्तत्तद्धर्मास्तत्रं तत्र प्रवृत्तिनिमित्ततया स्वीकार्याः । प्रकृते तु दुःखदातृत्वरूपो धर्मः । तत्र च वाच्यकक्षायां दुःखत्वेन रूपेणापराधान्तरनिमित्तं दुःखं प्रकरणादिवशाद्धटकीभूय भासते । व्यङ्ग्यकक्षायां तु दूतीसंभोगनिमित्तदुःखत्वेन दूतीसंभोगनिमित्तकं दुःखमिति भावः ।