पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
रसगङ्गाधरः ।

पूर्णत्वाभावे । अथ​ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदर्भेण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्य च शब्दार्थताया अस्वीकृतेः । अन्यच्च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापारं तथापि न तवेष्टसिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्ग्यत्वप्रसङ्गात् । एवं चोपपत्तिविरोधोऽपि स्फुटतर एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम् । तथा हि ‘अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापीं स्नातुमितो ममान्तिकाद्ग​तासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुलयुवजनत्रपापारवश्यादंसद्व​यलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मु-


मते तत्सूपपादमिति सूचितम् । त्वदुक्तेति । तटादिघटितत्वरूपयेत्यर्थः । निषेधस्येति । यथाक्रममन्वयः । उन्मीलिते प्रकटिते । कर्तृविशेषणं लुठन्त इति । तदनुपपत्यधीन उल्लासो यस्य विरोधिलक्षणया पूर्णत्वाभावस्य तत्र यथा न व्यञ्जनावेद्यतेत्यर्थः । लक्ष्येति । लक्ष्यं तदन्तिकगमनं तस्य या शक्तिः सामर्थ्ये तन्मूलं यद्व्य​ञ्जनं । तद्वेद्यत्वमित्यर्थः । आदिना 'नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मातिरिक्तेन कर्मणा तादृशं हि दूतीप्रेषणात्प्राचीनं सर्वे सौढमेवेति नोद्धाटनार्हमन्यथा स्वयं दूतीसंप्रेषणानुपपत्तेः' इत्यादि परिग्रहः । तस्यापि रमणस्यापि । ननु तद्वेयत्वेऽपि व्यञ्जना कुतो नात आह—-अन्येति । ‘अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । यथाकथंचिदिति । अर्थापत्तिप्रमाणस्यातिरिक्तस्याभावादिति भावः । अत्र रमणे । संभोगमात्रेति। तदन्येन वाच्यस्य सिद्धेरेवाभावादिति भावः । उपसंहरति--एवं चेति। उक्तरीत्या गुणीभूतव्यङ्गत्वप्रसङ्गे चेत्यर्थः । एवं चात्र तदनुरोधेन तथोक्तावुपपत्तिविरोधवत्तत्र तदनुरोधत्यागेनासाधारण्यप्रतिपादनं तद्विरुद्धमेव तदाह–अपीति । कथं तर्हि तस्य व्यङ्ग्यत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्यार्थेति। वापीस्नानेत्यर्थः। निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति । अन्तिकमित्यत्र गतासीत्यनुषङ्गः । एवं