पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
काव्यमाला ।

कमपीति चमत्कृतिभूमिम् । तेनातिगूढस्फुटव्यङ्ग्ययोर्निरासः । अपराङ्गवाच्यसिद्ध्यङ्गव्यङ्ग्यस्यापि चमत्कारितया तद्वारणाय गुणीभावितात्मानाविति स्वापेक्षया व्यङ्ग्यप्राधान्याभिप्रायकम् ॥

उदाहरणम्-
‘शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् ।
दयिता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥"

अत्रालम्बनस्य नायकस्य, सविधशयनाक्षिप्तस्य रहःस्थानादेरुद्दीपनस्य च विभावस्य, तादृशनिरीक्षणादेरनुभावस्य, त्रपौत्सुक्यादेश्च व्यभिचारिणः, संयोगाद्रतिरभिव्यज्यते । आलम्बनादीनां स्वरूपं वक्ष्यते । न च यद्ययं शयितः स्यात्तदास्याननाम्बुजं चुम्बेयमिति नायकेच्छाया एव व्यङ्ग्यत्वमत्रेति वाच्यम् । मनोरथान्सफलीकर्तुमसमर्थेत्यनेन मनाेरथाः सर्वेऽस्या हृदि तिष्ठन्तीति प्रतीतेः । स्वशब्देन मनोरथपदेन सामान्याकारेण तादृशेच्छाया अपि निवेदनात् । न च मनोरथपदेन मनोरथत्वाकारेण सामान्येच्छाया अभिधानेऽपि चुम्बेयमिति विषयविशेषविशिष्टेच्छात्वेन व्यङ्ग्यत्वे किं बाधकमिति वाच्यम् । चमत्कारो न स्यादित्यस्यैव बाधकत्वात् । न हि विशेषाकारेण व्यङ्ग्योऽपि सामान्याकारेणाभिहितोऽर्थः सहृदयानां चमत्कृतिमुत्पादयितुमीष्टे । कथमपि वाच्यवृत्त्य-


ऽपि । निरास इति । असुन्दरस्येत्यपि बोध्यम् । गुणीभावितात्मानावित्यनेनाप्यस्य निरास इति ध्वनयितुं द्वयोरेवोक्तिः । एवं संदिग्धप्राधान्यतुल्यप्राधान्यकाक्वाक्षिप्तानामपि बोध्यम् । स्वापेक्षया शब्दार्थांपेक्षया । सविधेऽर्थाद्दयितस्य । कारणसत्वेऽपि कार्थाभावादहो इत्याश्चर्ये । रह एकान्तम् । त्रपौत्सुक्यादेरिति । दरेत्यनेन त्रपा व्यङ्ग्या, निरीक्षणेन चौत्सुक्यमिति बोध्यम् । संयोगात्संबन्धात्। र​तिरिति । नायकाया इति शेषः । शयित इति । कर्तरि भूते क्तः । ‘तदास्याननाम्बुजम्' इति पाठः । एव उक्तव्यवच्छेदे । स्वशब्देनेत्यस्य व्याख्या मनोरथेति । सामान्येति । मनोरथत्वेत्यर्थः । तथा च वाच्यस्याव्यङ्ग्यत्वमिति भावः । सामान्येनेत्यस्य व्याख्या मनोरथेति । यद्वा सामान्येनेच्छात्वेन । अवच्छिन्नत्वं तृतीयार्थः । चमत्काराभावे हेतुमाह-नहीति । तत्र हेतुमाह-कथमपीति । सामान्यरूपेण विशेषरूपेण चेत्यर्थः । एवं च ध्वनिविशेष एवैतद्बोध्यम् । स्पष्टश्चायमर्थो गूढाख्यगुणीभूतव्यङ्ग्यनिरूपणे पञ्चमोल्लासो रसदो-