पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
रसगङ्गाधरः ।

परिष्कुर्वन्त्वर्थान्सहृदयधुरीणाः कतिपये
तथापि क्लेशो मे कथमपि गतार्थो न भविता ।
तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे
किमेतेनायासो भवति विफलो मन्दरगिरेः ॥
निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किंचित् ।
किं सेव्यते सुमनसां मनसापि गन्धः
कस्तूरिकाजननशक्तिभृता मृगेण ॥
मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः ।
रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ॥


धारणधर्ममाह-अन्तरिति । ग्रन्थपक्षे साहित्यविषयमज्ञानम् । मणिपक्षे तु स्पष्टमेव । अलंकारान्भूषणानि तच्छास्त्राणि वा । सर्वानपि न तु कांश्चित् । गलितः स्वयमेव च्युतो नष्टो गर्वो येषां तान्रचयतु । करोत्वित्यर्थः ॥

ननु तादृशार्षग्रन्थेनैव निर्वाहे किमित्यपूर्वोऽयं ग्रन्थोऽत आह-परीति । केचन काव्यवासनावासितान्तःकरणश्रेष्ठा अर्थानार्षानलंकारादीन्परिकुर्वन्तु, तथापि तैस्तथा कृतेऽपि में क्लेशो रसगङ्गाधररचनरूपः कथमपि स्वल्पतोऽपि गतार्थश्चरितार्थो न भविता । भविष्यतीति वाच्ये भवितेत्यनेनेदं सूचितम्, स्वग्रन्थकरणकाले स्वतुल्यपण्डितसत्वेन तेषां गतार्थत्वेऽप्यग्रिमाणामल्पबुद्धीनां न गतार्थत्वम् । अत एव केचन सहृदयधुरीणा इत्युक्तमिति । उक्तमर्थमर्थान्तरोपन्यासेन द्रढयति-तिमीन्द्रा मत्स्यविशेषश्रेष्ठाः पुनर्भूयः सम्यङ् न तु यथाकथंचित्क्षोभमालोडनं कुर्वन्तु । एतेन तत्कर्तृकेन तेन मन्दराचलप्रयासो विफलो निष्फलः किं भवति । अपि तु नेति । तिमीन्द्राणां तत्रत्यरत्नलाभेऽपि देवानां तदलाभात्तत्करणेन साफल्यमिति भावः ॥

इतरग्रन्थतो विशेषान्तरमाह-निर्मायेति । उदेति । तत्तदलंकारादिलक्ष्यत्वयोग्यं काव्यं भामिनीविलासाख्यम् । अत्र रसगङ्गाधरग्रन्थे । लेशतोऽपि परकीयत्वाभावायाह-न परस्येति । निहितमित्यस्यानुषङ्गः । पूर्ववदाह-किमिति । सुमनसां पुष्पाणाम् । गन्ध आमोदः । कस्तूरिकावतेति वाच्ये जननशक्तीत्यनेन सूचितम्, कदापि परकीयग्रहणं न । तज्जननशक्तिसत्वेन यावदपेक्षितोत्पादनसंभवादिति ॥

प्रतिजानीते-मननेति । मननरूपनौकापारंगतविद्यारूपोदधिर्जगन्नाथाख्यपण्डित- श्रेष्ठः । पण्डितो नरेन्द्रः पृथ्वीशो येन वा । नरेन्द्रस्य पण्डित इति वा । पण्डितश्चासौ नरेन्द्रश्च तत्तुल्यत्वादिति वा । वस्तुतस्तु जगन्नाथपण्डितराज इति पृथ्वीपतिदत्तनामाभिलापोऽयम् । कुतुकेनेत्यनेन स्वस्य ग्रन्थकरणे क्लेशाभावः सूचितः । मीमांसा विचारः ॥