पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( २८३ )
त्रयोदशः सर्गः ।

 विरक्तति ॥ विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णम् । पृथिव्या इदं पार्थिवम् । रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति । तस्मात् । हनुरस्यास्तीति हनूमान् ॥ “शरादीनां च" इति दीर्घः ॥ तेन कथि सा प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि ॥ " शङ्का भयवितर्कयोः” इति शब्दार्णवे ॥ अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः ॥

  [१]द्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
  हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥६५॥

 अद्धेति ॥ किंच । साधुः सजनः स भरतः ॥ “साधुर्वार्धुश्हिके चारो सज्जने चापि वाच्यवत्" इति विश्वः ॥ पालितसंगराय पालितपितृप्रतिज्ञाय मे मह्यमनघामदोषां भोगाभावादनुच्छिष्टां किंतु संरक्षितां श्रियम् । मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम् ॥ “सत्ये त्वद्धाञ्जसा द्वयम्" इत्यमरः ॥

  असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
  वृद्धैरमात्यैः सह चीरवासा माम[२]य॑पाणिर्भरतोऽभ्युपैति ॥ ६६ ॥

 असाविति ॥ असौ पदातिः पादचारी चीरवासा वल्कलवसनो भरतः पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन् ॥ “नवृतश्च” इति कप् ॥ गुरुं वसिष्टं पुरस्कृत्य वृद्धैरमात्यैः सहार्घ्यपाणिः सन्मामभ्युपैति ॥

  पित्रा वि[३]सृष्टां मदपेक्षया यः श्रियं युवाप्य॑[४]ङ्कगतामभोक्ता।
  इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ ६७॥

 पित्रेति ॥ यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि । यां श्रियं युवापि मदपेक्षया मद्भक्त्याभोक्ता सन् ॥ तृन्नन्तत्वात् “न लोक-" इति षष्ठीनिषेधः ॥ इयन्ति वर्षाण्येतावतो वत्सरान् ॥ असन्तसंयोगे द्वितीया ॥ तया श्रिया सह । स्त्रियेति च गम्यते । उग्रं दुश्वरमासिधारं नाम व्रतमभ्यस्यतीव वर्तयतीव ॥ "युवा युवया सार्धं यन्मुग्धभर्तृवदाचरेत् । अन्तनिवृत्तसङ्गः स्यादासिधारवंतं हि तत्" इति यादवः ॥ इदं चासिधाराचंक्रमणतुल्यत्वादासिधारव्रतमित्युक्तम् ॥

  एतावदुक्तवति दाशरथौ तदीया-
   मिच्छां विमानमधिदेवतया विदित्वा ।
  ज्योतिष्पथादवततार सविस्मयाभि-
   रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः॥ ६८॥


  1. अद्य
  2. अर्घपाणिः.
  3. निसृष्टाम्.
  4. अङ्गगताम्.