पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णमाशौचम् ।–‘जात मृते मृतजाते वा सपिण्डानां दशाहम्’ इति हारीतस्मरणात् ।–“अतः सूतके चेदोत्थानाशौचं सूतकवत्' इति पारस्करवचनाच । आ उत्थानादा सूतिकाया उत्थानाद्दशाहमिति यावत् । सूतकवदिति शिशूपरमनिमित्तोदकदा नरहितमित्यर्थः । बृहन्मनुरपि—‘दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवै । शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥' इति । तथा च स्मृत्यन्तरमपि अन्तर्दशाहोपरतस्य सूतिकाहोभिरेवाशौचम्’ इति । एवमादिवचननिचयपर्या लोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत्पुन ईहद्विष्णुवचनम्–“जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्’ इति तच्छि शूपरमनिमित्तस्याशौचवस्य स्रानाच्छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथा च पारस्करः–‘गर्भ यदि विपत्तिः स्याद्दशाहं सूतकं भवेत् ।' सपिण्डानां प्रस वनिमित्तस्य विद्यमानत्वात् ।–‘जीवअक्षातो यदि प्रेयात्सद्य एव विशुद्धयति ’ इति प्रेताशौचाभिप्रायम् । तथाच शङ्गेनोक्तम्—‘प्राङ्गामकरणात्सद्यःशौचम् इति । यत्पुनः कात्यायनवचनम्–“अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति । सद्य एव विशुद्धिः स्यान्न प्रेतं नोदकक्रिया ॥” इति, तदपि वैष्णवेन समानार्थम् । यदा तु न प्रेतं नैवसूलकमिति पाठस्तदा सूतकमस्पृश्यत्वं नैव पित्रादीनां भवतीत्यर्थः । अथवाऽयमर्थः-अन्तर्दशाहे यदि शिशूपरमस्तदा न प्रेताशौचवम् । यदि तत्र सपिण्डजननं तदा सूतकमपि नैव कार्य किंतु पूर्वाशौ चेनैव शुद्धिरिति । यत्तु बृहन्मनुवचनम्–‘जीवञ्जातो यदि ततो मृत सूतक एव तु । सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥' इति । यच्च बृह प्रचेतोवचनमू–‘मुहूर्त जीवतो बालः पञ्चत्वं यदि गच्छति । मातुः शुद्धि र्दशाहेन सैद्यः शुद्धास्तु गोत्रिणः ॥” इति, तत्रेयं व्यवस्था—जननानन्तरं नाभिवर्धनात्प्राङ् मृतैौ पित्रादीनां जनननिमित्तमाशौचं दिनत्रयम् । सद्यःशौचं स्वग्निहोत्राद्यर्थम् ।–‘अग्निहोत्रार्थे स्रानोपस्पर्शनात्तत्कालं शौचम्’ इति शङ्क स्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणेऽपि जनननिमित्तं संपूर्णमाशौचं यावन्न छिद्यते नालं तावन्नामोति सूतकम् । छिन्ने नाले तत पश्चात्सूतकं तु विधीयते ॥’ इति जैमेिनिस्मरणात् । मनुनाप्ययमर्थो दर्शितः (५॥६६)-‘रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशु द्धयति । रजस्युपरते साध्वी खानेन स्री रजस्वला ॥' इति । पूर्वभागस्याधे दर्शितः । उत्तरस्य त्वयमर्थः । रजसेि निःसरणादुपरते निवृत्ते रजस्वला स्त्री खानेन साध्वी देवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनरनुपरतेऽपि रजसेि चतुर्थेऽहनेि खानाच्छुद्धा भवति । तदुक्तं वृद्धमनुना–‘चतुर्थेऽहनि संशुद्धा भवति व्यावहारिकी' इति । तथा स्मृत्यन्तरम्--'शुद्धा भर्तुश्चतुर्थेऽह्नि खानेन स्री रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्धयति ॥ पञ्चमेऽह यदा रजोद्र्शनादारभ्य पुनः सप्तदश १ सूतकाहोभिः ख. २ सद्यः शौचास्तु घ