पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७०८ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः सदण्डप्रासियोग्योत्तमद्भव्यविषयम् । पुनः पुष्पवस्रादिक्षुद्रमध्यमद्रव्यापहार विषयम् । ‘साहसेषु य एवोक्तस्त्रिषु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ॥' इति नारदवचनेन धरूपस्योत्तमसाहसस्योत्तमद्र विषये व्यवस्थापेितत्वात् यत्पुनर्तृद्धमनुवचनम्-‘अन्यायोपात्तवेित्तत्वा द्धनमेषां मलात्मकम् । अर्तस्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ॥' इति तदपि महापराधविषयम् ॥ चौरविशेषेऽपवादमाह सचिह्न ब्राह्मणं कृत्वा खराष्ट्राद्विप्रवासयेत् ।। २७० ।। ब्राह्मणं पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्कयित्वा स्वदेशा न्निष्कासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथाच मनुः (९॥२३७)- गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिरा पुमान् ॥' इति । एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् ॥ यथाह मनुः (९॥२४०)-‘प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्कया राज्ञा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥’ इति ॥ २७० ॥ चौरादर्शने अपहृतद्रव्यप्राप्युपायमाह धातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतंभर्तुस्तु पथि चौरोद्धर्तुरवीतके ।। २७१ ।। यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषस्तत्परिहारार्थ स एव चैौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरैस्य पदं स्वग्रामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं चार्पयेत् । तथाच नारदः–‘गोचरे यस्य लुप्येत तेन चौरः प्रयलत । . ग्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान्मा र्गपालांश्च दिक्पालांश्चैव दापयेत् ॥' इति ॥ विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तङ्कतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुमर्गपालस्य दिक्पालस्य वै दोषः ॥ २७१ ॥ खसीम् िदद्याद्भामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ।। २७२ ॥ किंच यदा पुनप्रमाद्वहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तङ्गाम वासिन एव दद्युः, यदि सीन्नो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र --९-स्ता वर्तयेत् घ. २ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणत्वेन परिगृहीतो भूप्रदेश इति पूर्व १६० पद्ये विवृतमेव . ३. चैौरपदंख. ४.मुष्येत ख, मुच्येत ग. ५ वापराधः घ .