पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० याज्ञवल्क्यस्मृतःि । [ व्यवहाराध्यायः 3 पठवादि । दैवकृताद्विनाशाद्विना । तथा स्वापराधरहिताद्राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधमर्णेनाध्यन्तरं वा । यथाह–‘स्रोतसा पहृते क्षेत्रे राज्ञा चैवापहारिते ! आधिरन्योऽथ कर्तव्यो देयं वा धनिने धनम् ॥ इति । तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम् ॥ ५९ ॥ आधेः खीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ।। ६० ।। अपिच । आधेभोग्र्यस्य कोऽप्यस्य च स्वीकरणादुपभोगादाधिग्रहणसिद्धिर्भ वति न साक्षिलेख्यमात्रेण नाप्युद्देशमात्रेण । यथाह नारदः–“आधिस्तु द्विविधः प्रोक्तो जङ्गम स्थावरस्तथा । सिद्धिरस्योभयस्यापि भोगो यद्यस्ति नान्यथा ॥’ इति । अस्य च फलं—‘आधौ प्रतिग्रहे क्रीते पूर्व तु बलवत्तरा' इति । या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयतेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्सतां गतस्तदाधिरन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणोऽप्यसारतामिति वदता आधिः प्रयखेन रक्षणीयो धनिनेति ज्ञापितम् ॥ ६० ॥ आधिः प्रणश्येद्विगुणे इत्यस्यापवादमाह चरित्रबन्धककृतं सवृद्धया दापयेद्धनम् । सत्यंकारकृतं द्रव्यं द्विगुणं तिदापयेत् ।। ६१ ।। चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद्रव्यमात्मसात्कृत पराधीनं वा कृतम् । एतदुक्तं भवतेि-धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्यमाधीकृत्याधमणेनाल्पमेव द्रव्यमात्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छा शयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहुद्रव्यमेव धनिनाधमर्णाधीनं कृतमिति । तद्धनं स नृपो वृद्धया सह दापयेत् । अयमाशयः--एवंच बन्धकं द्विगुणी भूतेऽपि द्रव्ये न नश्यति किंतु द्रव्यमेव द्विगुणं दातव्यमिति । तथा सत्यंकार कृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकार –“कारे सत्यागदस्य इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयमभिसन्धि -यदा बन्धका र्पणसमय एवेत्थं परिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेव दातव्यं नाधिनाश इति तदा तद्विगुणं दापयेदिति । अन्योऽर्थः । चरित्रमेव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते । यत्र तदेवाधीकृत्य यद्रव्यमात्मसातं तत्र तदेव द्विगुणीभूतं दातव्यं नाधि नाश इति । आधिप्रसङ्गाद्न्यदुच्यते सत्यंकारकृतमिति । क्रयविक्रयादिव्यव स्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद्यवस्थातिक्रमे द्विगुणं दातव्यम् । १ गोप्यस्य भोग्यस्य च ख. २ स्वीकारान्तक्रिया पूर्वा ख. ३ प्रतिपादयेत् घ. ४ एवंविधं घ. ५ द्विगुणीभूतमेव द्रव्यं घ. ६ कृतं तदा तत्र ख