पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/5

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
॥ श्रीः ॥

महाकविश्रीकालिदासप्रणीतः

मेघसन्देशः

श्रीदक्षिणावर्तनाथप्रणीतप्रदीपाख्य-

व्याख्यासनाथः ।
-----
(पूर्वसन्देशः)

रघुवंशकुमारसम्भवौ द्वौ स्फुटभावौ किल यस्य दीपिकाभ्याम् ।
स ददाति रसोज्ज्वलं प्रदीपं तिमिरं मेघसमुद्भवं विहन्तुम् ॥

 इह खलु कविः सीतां प्रति हनूमता हारितं सन्देशं हृदयेन[१] समुद्वहन् तत्स्थानीयनायकाद्युत्पादनेन सन्देशं करोति--

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात् प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

 कश्चिदिति । रामकथाभिलापे लिङ्गम् 'इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा' इति वक्ष्यमाणवचनम्[२]। कश्चिद् यक्षः रामगिर्याश्रमेषु वसतिं चक्रे । कश्चिद् देवयोनिविशेषः रामनाम्नः पर्वतस्य आश्रमेषु देवभूमिषु वसतिं पदं चकार । कीदृशो यक्षः, स्वाधिकारात्[३]



G.P.T.3766.500.14-9-18. B
 
  1. 'ये कुर्वाणः त’ ख. पाठः.
  2. 'नम् । स्वा'
  3. ’त् प्रमत्तः इति पाठः । जुगुप्साविरामार्थानामित्यपादाने पञ्चमी । प्रमत्तोऽनवहितः ।’ क. पाठः.