पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
मेघदूतम् ।

 इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री-
  र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥५२।।

 एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ "हृद्भगसिन्ध्वन्ते पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ।। "विधुरं तु प्रविश्लेषे" इत्यमरः ।। मयि विषयेऽनुक्रोशबुद्धया करुणाबुद्ध्या वा अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति "संदेशं मे हर" इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे ममैतत्संदेशहरणरूपं प्रियं कृत्वा संपाद्य प्रावृषा वर्षाभिः "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिलषितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः । “देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्" इति वचनात्कर्मत्वम् । एवं मद्वत्क्षणमपि स्वल्पकालमपि तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो मा भून्मास्तु ।। माङीत्याशिषि लुङ् ॥ "अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वान्नायकेच्छानुरूपिणीम् ॥” इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसंधेयम् ।

इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूतकाव्य
उत्तरमेघः समाप्तः।


 (५२) हे मेघ ! मदीयकार्यसम्पाद्य वर्षोपचितसोभः सन् यथेष्टदेशेषु विहर ममेव तवाऽपि विद्युत्कलत्रवियोगो मा भूदिति भावः ।

१. क्वचिदपि न,