संप्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति-
भूयश्चाहं त्वमपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ।
सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥४८॥
भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आह-पुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ "स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः ।। शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः सस्वनं सशब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीरिति शेषः । असकृद्बहुशः पृच्छतः । रोदनहेतुमिति शेषः । मे मम हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासं समन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयश्चाहेति योजना ॥
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनाचकितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा-
दिष्टे वस्तुन्युपचितरसा प्रेमराशीभवन्ति ॥४९॥
एतस्मादिति ॥ एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एतावता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ "स्या-
(४८) हे प्रिये ! पुरैकशयने सुप्तापि स्वप्ने किमपि वीक्ष्योत्थाय च कामपि
स्त्रियं रमयन् स्वप्ने मया दृष्टोऽसीत्युक्तवतीत्यर्थः ।
(४९) हे चकितनयने ! प्रेषितसन्देशरूपाभिज्ञानान्मां सकुशलं विज्ञाय मय्यविश्वस्ता मा भूः विरहेऽपि भोगाभावात्स्नेहो वर्द्धत एवेति भावः।
१ अपि. २ असि. ३ सत्वरम्. सत्स्वरम्. ४ असित. ५ विरहाहासिनः;
विरहव्यापदः, ६ ह्यभोग्या:, ७ दृष्टे.