पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
मेघदूतम् ।

 न च निरवधिकमेतद्दुःखमित्याह-

 शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
  शेषान्मासान्गमय चतुरो लोचने मीलयित्वा ।
 पश्चादावां विरहगुणितं तं तमात्माभिलाषं
  निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥४७॥

 शापान्त इति ॥ शार्ङ्ग पाणौ यस्य स तस्मिञ्शार्ङ्गपाणौ विष्णौ ।। "सप्तमीविशेषणे-" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः” इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीति शेपः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ।। "त्यदादीनि सर्वैर्नित्यम्" इत्येकशेषः ॥ "त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते" इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् । तं तम् ।। वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् । परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु निर्वेक्ष्यावो भोक्ष्यावहे । विशतेर्लृट ।। "निर्वेशो भृतिभोगयोः" इत्यमरः ।। अत्र कैश्चित् "नभोनभस्योरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः" इति पर्यहारि तत्सर्वमसंगतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमाषाढादिचतुष्टयात्परं शरत्कालः” इति, तत्राप्याकार्तिकसमाप्ते: शरत्कालानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्त इत्यविरोध एव ॥


 (४७) हे प्रिये ! विष्णोरुत्थाने सति शापान्तो भविष्यति अतोऽवशिष्टमासचतुष्टयं कथमपि यापय पश्चादावयोर्मनोऽभिलषितकार्यं सेत्स्यतीति भावः ।

१ मासानेतान्; मासानन्यान. २ गणितम् ; जनितम्.