पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
उत्तरमेघः ।

केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः। मन्दमन्दो मन्दप्रकारः ॥ "प्रकारे गुणवचनस्य" इति द्विरुक्तिः । “कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावात्सुपा लुक् ।। मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥

 न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह-

 नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे
  तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ।
 कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
  नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४६॥

 नन्विति ॥ नन्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु" इत्यमरः ॥ ननु प्रिये, बहु विगणयञ्शापान्ते सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्यानम्" इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिज्जीवामीत्यर्थः । तत्तस्मात्कारणात् । हे कल्याणि सुभगे त्वत्सौभाग्येनैव जीवामीति भावः ।। "बह्वादिभ्यश्च" इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ "न माङ्योगे" इत्यडागमाभावः । तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याशङ्कयाह-कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ।। "क्रमः शक्तौ परीपाट्याम्” इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ।।


 (४६) हे कल्याणि! चक्रवत्परिवर्तनात्कस्याप्येकान्ततः सुखदुःखयोरसत्वात् सङ्गमाशया यथाऽहं धैर्यवान् तथैव त्वमपि धैर्यवती भवेति भावः।

१ नतु; इति. २ न. ३ सुतराम्. ४ उपगतम्.