सामग्री पर जाएँ

पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
उत्तरमेघः ।

 शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्ततुष्पैः ॥ देहली द्वारस्याधारदारु॥ गृहावग्रहणी देहली" इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसंख्यानेन भुवि भूतले विन्यस्यन्ती वा। पुष्पविन्यासैर्मासान्गणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्बनादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्संभोगरतिमास्वादयन्ती वा । “आलोके ते निपतति" इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यसेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमणविरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः। एतेन संकल्पावस्थोक्ता तदुक्तम्- “संकल्पो नाथविषये मनोरथ उदाहृतः” इति ॥ त्रिभिः कुलकम् ॥

 सव्यापारामहनि न तथा पीडयेन्मद्वियोगः
  शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
 मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
  तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥२५॥

 सव्यापारामिति ।। हे सखे ! अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोगो मद्विरहस्तथा तेन प्रकारेण ॥ “प्रकारवचने थाल्” इति थाल्प्रत्ययः ॥न पीडयेत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ "शङ्का वितर्कभययोः” इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ " साध्वी पतिव्रता" इत्यमरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । तां त्वत्सखीं मत्संदेशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ "सखी धात्री च


 (२५) हे मेघ ! मद्वियोगः प्रियां दिवा तथा न बाधते यथा रात्रावतः प्रासादगवाक्षवर्ती सन् मदुदन्तैस्तां सुखयितुमर्हसीति भावः ।

१ खेदयेत्. २ विप्रयोगः. ३ शयनासन्न. सयनासद्म