तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती २३
उत्सङ्गेति ॥ हे सौम्य ! साधो ! मलिनवसने "प्रोषिते मलिना कृशा" इति शास्त्रादित्यर्थः उत्सङ्गे ऊरौ वीणां निक्षिप्य । मम गोत्रं नामाङ्कश्चिह्नं यस्मिंस्तन्मद्गोत्राङ्कं मन्नमाङ्कं यथा तथा । "गोत्रं नाम्नि कुलेऽपि च" इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानाह प्रबन्धादि ॥ “गीतम्” इति पाठे स एवार्थः ॥ उद्गातुमुच्चैर्गातुं कामोयस्याः सा ॥ "तुं काममनसोरपि" इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम्- "षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं, स लभ्यो देवयोनिभिः ॥” इति तथा नयनसलिलै: प्रियतमस्मृतिजनितैरश्रुभिरार्द्रां तन्त्रीं कथंचित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा क्वणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपि । विस्मरणानर्हामपीत्यर्थः । मूर्च्छनां स्वरारोहक्रमम । "स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि" इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । "आलोके ते निपतति" इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे-“वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूर्च्छा दशधा जायते तथा ॥” इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥
शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥२४॥
(२३) हे मेघ ! क्रोडे क्रीणां निधाय मन्नामाङ्कगीतं गातुमुत्सुका प्रिया
रुदन्ती सती द्रक्ष्यते त्वयेति भावः ।
(२४) हे मेघ ! गतावशिष्टमासान् भुवि गणयन्ती मनसि मत्संभोगरतिमास्वादयन्ती मत्प्रिया तवालोके निपतिष्यतीति भावः ।
१ तन्त्रीरार्द्रा. २ गमन. ३ प्रस्थितस्य. ४ मुक्त ५ मत्संभोगम्. संभोगं वा; संयोगं वा. ६ विहिता. ७ आसादयन्ती. ८ विरहे हि.