पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
57
MEGHADUTA

कामपि वनितां रमयन्भवान्स्वप्ने मयावलोकितः । अत ईर्ष्याकोपेनाहमरुदमिति ॥ १०८ ॥

  एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
  मा कौलीनादमितनयने मय्यविश्वासिनी भूः ।
  स्नेहानाहुः किमपि विरहह्रासिनस्ते ह्यभोगा-
  दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १०९ ॥

 हे कुवलयाक्ष्येतस्मादभिज्ञानदानान्मां स्वस्थमवेत्य कौलीनाल्लोकापवादमात्रान्मयि त्वमविश्वासिनी निष्प्रत्यया मा भूः । तदेव कौलीनमाह । किमपि कुतोऽपि हेतोः स्नेहान्विरहह्रासिनो वियोगे तनूभवतो जना प्राहुः । यथा । प्रीतिः प्रवासाश्रयादिति । एतच्चायुक्तम् । यस्मात्ते स्नेहा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितरसाः सन्तः प्रेम्णो राशीभवन्ति प्रीतिमयाः संपद्यन्ते । हृदयवल्लभविषये वियोगवशात्सहस्रगुणः स्नेहः संपद्यत इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । कौलीनं लोकापवादः ॥ १०९ ॥

 इत्थं संदेशमुक्त्वा प्रार्थनामभ्युपगमयितुमाह ।

  कञ्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
  प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि ।
  निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
  प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११० ॥

 हे सोम्य प्रियदर्शनैतन्मित्रकार्य कच्चिद्भवता व्यवसितमंगीकृतं मम । अवश्यमत्र त्वया व्यवसायवता भाव्यम् । प्रत्याख्यातुमत्र तव धैर्यं न


. 5 । विरहेJ, I.S: मिमस्ते I.S. D. प्यभोगा. J, स्वभोगा. I, S, ह्यभोग्या दृष्टे ). 3 Bhartrihuri's Mikutuka (Böhtlingk's Indische Sprüche, No. 2991). ' वसमे विषय.A. सह A; cf. Nanılargikor's Notes, p. 112, 1. 2. सोम्य J.M,S. B,D. प्रत्यादेशान J, I, S, प्रत्यादेष्टुं न ). कल्पयामि J, M, S. utfon T7° A, B, C; but see the commentary. 7 9