पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
56
MEGHADUTA

च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो न प्रहृष्येत शोचेत् ॥ नन्वभिमुखीकरणे । मा गम इति लृदित्वादङ् ॥ १०६ ॥

 मुखागमे कस्तव निश्चय इत्याह ।

  शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
  मामानन्यान्गणय चतुरो लोचने मीलयित्वा ।
  पश्चादावां विरहगणितं तं तमात्माभिलाषं
  निर्वक्ष्यावः परिणतशरच्चन्द्रिकामु क्षपामु ॥ १०७ ॥

 कार्त्तिकशुक्लद्वादश्यां भुजगशयनाच्छेषतल्पादुत्थिते शार्ङ्गपाणौ हरौ मम शापान्तो भविष्यति । तदैव वर्षस्य परिपूर्णत्वात् । अतश्चाद्यारभ्य मासचतुष्टयं लोचने मीलयित्वा यथाकथंचिद्गमयातिवाहय । ततः पश्चात्संयोगे मति चिरकालगुणितं तीक्ष्णं तं तं नानाविधमात्मनो अभिलाषं कामं परिपक्वशरदज्योत्स्नासु निशास्वावां निर्वेक्ष्याव उपभुञ्जावहे । लोचननिमीलनेनात्र यथातथात्वं लक्ष्यते ॥ १०७ ॥

 इदानीं सुस्पष्टमभिज्ञानमाह ।

  भूयश्वाह त्वमपि शयने कण्ठलग्ना पुरा मे
  निद्रां गत्वा किमपि रूदती सस्वनं विप्रबुद्धा ।
  सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
  दृष्टः स्वप्रे कितव रमयन्कामपि त्वं मयेति ॥ १०८ ॥

 स त्वप्रिय एतदुक्त्वा पुनरपि स्वामिदमाह । यथा पूर्वं भवती तल्पे मामालिङ्ग्य सुप्ता केनापि निमित्तेन सशब्दं रुदती विप्रबुद्धा विनिद्रा जाता । ततो रोदनहेतुमसकृत्पृच्छतो मम त्वयोक्तम् । हे कितव धूर्त


'I'rom the Juhibhiruta; see Bohtlingk's Indische Sprache, No. 7008. ? Pan. iii, 1, ). 3 पाम्मामाग्गमय 11, S, I). toorui M, S. तमेवाभि. J. ° Real probably विरहकान.. हीच... भूययापि, भूययामि D. त्वममि J, S. J,M,S, 1). ॥ •तोऽमि J', क. 12. कामिनी कामपि स्वम ). 7 6 10 सस्वरं