पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
51
MEGHADUTA

उत्सुकान्युत्कानि । मेघालोके हि विरहो दुःसहः । यस्त्वरयतीत्यम्बुवाहापेक्षया पुंस्त्वं प्रथमपुरुषनिर्देशश्च । मित्रास्मदपेक्षया तु दुर्घटमेतत्स्यात् ॥ ९६ ॥

  इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
  त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव ।
  श्रोष्यत्यस्मात्परमवहिता सोम्य सीमन्तिनीनां
  कान्तोदन्तः' सुहृजुपनतः संगमात्किंचिदूनः ॥ ९७ ॥

 इत्थं त्वयोक्ते सति सा त्वामुद्वक्त्रा दृशा दृष्ट्वा धिया चोपपद्यते तद्दूतस्वमस्येति संभाव्य विचार्यातः परमवहितैकाग्राकर्णयिष्यति । यस्मात्पुरंध्रीणां मित्रेणानीतः कान्तोदन्तो वल्लभवृत्तान्तः संगमात्किंचिदूनः । प्रियसमागमे समाश्वासोत्पादात्प्रियसंगमनिभ इत्यर्थः । कमिव का वीक्ष्येत्याह । पवनतनयं हनूमन्तं मैथिली सीता यथा पूर्वं दृष्टवती दूतं च संभावितवती । उत्कठ्योच्छ्वसितं मुक्तोच्छ्वासं हृदयं यस्याः सा तथोक्ता ॥ ९७ ॥

  तामायुष्मान्मम च वचनादात्मना चोपकर्तुं
  ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
  अव्यापन्नः कुशलमबले पृच्छति वां वियुक्तः
  पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ ९८ ॥

 आयुष्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तुं तामित्थं ब्रूयाद्वदेत् । यथा तव सहचरः पतिश्चित्रकूटासीनोऽव्यापन्नो जीवस्त्वां कुशलं पृच्छतीति । किमित्युभयगतकुशलकथनमेवादावित्याह । यस्मात्सुप्रापवि


| The compound fate is a dwula. संभाष्य वम D. वहितं J, •पि हितं D. 'सौम्य J, M, S, D. 'कान्तोपान्तात् J. •पगमः J, •पगतः ॥, पहत: D. युप्मन्मम J, AI, S, D Rec. m. दात्मनशोप J, I, S, D. " नियुक्त: J. " पूर्वाभाष्यं I, D. भूताना हि शयिषु करणेवाघमावास्यमेतत् S. D 10 o घूया एवं M, S. स्वाA, B. 13 E 2