पृष्ठम्:मृच्छकटिकम्.pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४
मृच्छकटिके

( भितिं पराभृश्य ) नित्यादित्यदर्शनोदकसेचनेन दूषितेयं भूमिः क्षार- क्षीणा । मूषिकोत्करश्चेह । हन्त, सिद्धोऽयमर्थः । प्रथममेतत्स्कन्दपुत्राणां सिद्धिलक्षणम् । अत्र कर्मप्रारम्भे कीदृशमिदानीं संधिमुत्पादयामि । इह खलु भगवता कनकशक्तिना चतुर्विधः संध्युपायो दर्शितः । तद्यथा---पक्केष्टकानामाकर्षणम्, आमेष्टकानां छेदनम् , पिण्डमयानां सेचनम् , काष्ठमयानां पाटनमिति । तदत्र पक्केष्टके इष्टिकाकर्षणम् । तत्र -

पद्मव्याकोशं भास्करं बालचन्द्रं
वापी विस्तीर्णं स्वस्तिकं पूर्णकुम्भम् ।
तत्कस्मिन्देशे दर्शयाम्यात्म शिल्पं
दृष्ट्वा श्वो यं यद्विस्मयं यान्ति पौराः ॥ १३ ॥

तदत्र पक्केष्टके पूर्णकुम्भ एव शोभते । तमुत्पादयामि ।

अन्यासु भित्तिषु मया निशि पाटितासु
क्षारक्षतासु विषमासु च कल्पनासु ।
दृष्ट्वा प्रभातसमये प्रतिवेशिवर्गो ।
दोषांश्च मे वदति कर्मणि कौशलं च ॥ १४ ॥

नमो वरदाय कुमारकार्तिकेयाय, नमः कनकशक्तये ब्रह्मण्यदेवाय देवव्रताय, नमो भास्करनन्दिने, नमो योगाचार्याय यस्याहं प्रथमः शिष्यः । तेन च परितुष्टेन योगरोचना मे दत्ता ॥


इति । संधिः किंभूतः ? । दर्शनान्तरगतो दर्शनान्तरं कनकशक्त्यादिमतविशेष- स्तदनुगतस्तद्बोधितः । करालो विपरीतः । स्त्रीजनदर्शनं हि तदनिष्टाचरणं वीरजनगर्हितं संभाव्येत ॥ १२ ॥ स्कन्दपुत्राणां स्कन्दोपजीविचौराचार्याणाम् ॥ पद्मव्याकोशमित्यादि । वैश्वदेवी छन्दः । वापी विस्तीर्णमिति द्वे नामनी । यदुक्तवान्-'इष्टकाभित्तौ च संस्कारवशेन पद्मव्याकोशादथः सप्त संज्ञाः' इति । भास्करो मण्डलाकारः। अन्येऽपि नामसदृशाः सप्त संधयः ॥ १३ ॥ अन्या- स्विति । कौशलं चेति चकारोऽप्यर्थे ॥१४॥ कार्तिकेयः परमगुरुः । ‘ब्रह्मण्यदेवा-


टिप्प-1 स्कन्दशिष्याय । =-=-=-=-

=