पृष्ठम्:मृच्छकटिकम्.pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
तृतीयोऽङ्कः

 चारुदत्तः--अहो, सुष्टु भावरेभिलेन गीतम् ।

 विदूषकः--मम दाव दुवेहिं ज्जेब्व हस्सं जाअदि । इत्थि- आए सक्कअं पठंतीए, मणुरसेण अ काअलीं गाअंतेण । इत्थिआ दाव सक्कअं पठंती, दिण्णणवणस्सा विअ गिट्टी, अहिअं सुसुआअदि । मणुस्सो वि काअलीं गाअंतो, सुक्खसुमणोदोमवेट्टिदो बुड्ढपुरोहिदो विअ मंतं जवंतो, दिढं मे ण रोअदि । [ मम तावद्द्वाभ्यामेव हास्यं जायते । स्त्रिया संस्कृतं पठन्त्या, मनुष्येण च काकलीं गायता । स्त्री तावत्संस्कृतं पठन्ती,-- दत्तनवस्येव गृ[१]ष्टिः, अधिकं सूसूशब्दं करोति । मनुष्योऽपि काकलीं गायन, शुष्कसुमनोदामवेष्टितो वृद्धपुरोहित इव मन्त्रं जपन, दृढं में न रोचते ।।

 चारुदत्तः---वयस्य ! सुष्ठु खल्वध गीतं भावरेभिलेन । न च भवान्परितुष्टः ।।

 र[२]क्तं च नाम मधुरं च समं स्फुटं च ।
भावान्वितं च ललितं च मनोहरं च ।
किंवा प्रशस्तवचनैबेहुभिर्मदुक्तै-
रन्तर्हिता यदि भवेद्वनितेति मन्ये ॥ ४ ॥

अपि च,--

तं तस्य स्वरसंक्रमं मृदुगिरः श्लिष्टं च तन्त्रीस्वनं
वर्णानामपि मूर्च्छनान्तरगतं तारं विरामे मृदुम् ।


तम् । काअलीं काकलीम् । णस्सा नासिका विवररज्जूः । सुसुआअदीत्यव्यक्त शब्दानुकारणम् । शुष्कसुमनोदामवेष्टितत्वेन चिरकालजपप्रवणत्वमुक्तम् ॥ रक्तमिति । भावान्वितं रत्यास्पदम् । ललितं लालित्याख्यधर्मविशेषशालि । पिहिता योधिदेव गायति न पुरुष इति भासते ॥ ४ ॥ तमिति ॥ ५ ॥

टिप्प्०--


  1. 1 सकृत्प्रसूता गौः ।,इयमुपमा परिहाससंश्लिष्टेति ज्ञेयम् ।
  2. 2 अत्र’गीतम्' इत्यस्यानुपदोक्तस्य ’रक्त” , इत्यादीनि सप्त विशेषणानि पूर्वस्मादुत्तरोत्तरं
    हेतुहेतुमद्भावापन्नानीत्यवधातव्यम्।