पृष्ठम्:मृच्छकटिकम्.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७३
द्वितीयोऽङ्कः

 वसन्तसेना---कण्णऊरअ किं किं ।। [ कर्णपूरक ! किं किम् ?।]

 कर्णपूरकः-सुणादु अज्जआ जो सो अजआए खुंटमोडओ णाम दुट्टहत्थी, सो आलाणत्थंभं भंजिअ महमेत्थं वावादिअ महंतं संखोहं करंतो राअमग्गं ओदिएणो । तदो एत्थंतरे उग्घुट्टं जणेण---

अवणेध वालअजणं तुरिदं आरुहध वुक्खपासादं ।
किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एदि ॥ १८ ॥

अवि अ,----

विचलइ णे उरजुअलं छिज्जंति अ मेहला मणिक्खइआ।
वलआ अ सुंदरदरा रअणंकुरजालपडिबद्धा ॥ १९ ॥

तदो तेण दुट्टहत्थिणा कलचरणदणेहिं फुल्लणलिणिं विअ णअरिं उज्जइणिं अवगाहमाणेण समासादिदो परिव्वाजओ । तच्च परिब्भट्टदंडकुंडिआभाअणं सीअरेहिं सिंचिअ दंतंतरे क्खित्तं पेक्खिअ पुणो वि उग्घुट्टं जणेण---‘हा परिव्वाजओ वावादीअदि' त्ति । [श्रृणोत्वार्या । यः स आर्यायाः खुण्टभोटको नाम दुष्टहस्ती स आलानस्तम्भं भङ्क, वा महामात्रं व्यापाद्य महान्तं संक्षोभं कुर्वन् राजमार्गमवतीर्णः । ततोऽत्रान्तरे उद्धुष्टं जनेन----

अपनयत बालकजनं त्वरितमारोहत वृक्षप्रासादम् ।
किं न खलु प्रेक्षध्वं पुरतो दुष्टो हस्तीत एति ॥

अपि च,-

विचलति नूपुरयुगलं छिद्यन्ते च मेखला मणिखचिताः ।
वलयाश्च सुन्दरतरा रत्नाङ्कुरजालप्रतिबद्धाः ॥


परिव्रज्यानुष्ठानरूपम् ॥ उद्वेगकारणम् । अजअं बसन्तसेनाम् ॥ महमेत्थं महामात्रं हस्त्यारोहम् । अवणेध इत्यादि। गाथाद्वयम् । वृक्षप्रासादम् ॥१८॥ विचलइ इति । नूपुरं वलयाश्च विघटन्ते ॥ १९ ॥ समासादिदो प्राप्तः परिव्राजकः संवाहक एव भिक्षुकरूपः । हस्तीकरशीकरसिंच्यमानमुत्थापिनं प्रेक्ष्य ।।