पृष्ठम्:मृच्छकटिकम्.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७१
द्वितीयोऽङ्कः

 चेटी--( वसन्तसे्नामुपसृत्य ) अज्जए ! पडितुट्टा गदा सहिअजूदिअरा । [आयें ! परितुष्टौ गतौ सभिकद्यूतकरौ ।]

 वसन्तसेना-ता गच्छदु अज्ज बंधुअणो समस्ससदु। [तद्गच्छतु, अद्य बन्धुजनः समाश्वसितु ।]

 संवाहक-अज्जए ! जइ एव्वं ती इअं कला पलिअणहत्थगदा कलीअदु । [आर्ये ! यद्येवं तदियं कला परिजनहस्तगता क्रियताम् ।

 वसन्तसेना-अज्ज ! जस्स कारणादो इअं कळा सिक्खीअदि, सो ज्जेत्र अज्जेण सुस्सूसिदपुव्वो सुस्सूसिदव्वो । [ आर्य! यस्य कारणादियं कला शिक्ष्यते, स एवार्येण शुश्रूषितपूर्वः शुश्रूषितव्यः ।]  संवाहकः-( स्वगतम् ) अज्ञआए णिउअं पञ्चादिट्टो म्हि । कधं पञ्वुवकलिश्शं । (प्रकाशम् ) अज्जए ! अहं एदिणा जूदिअलावमाणेण शक्कशमणके हुविश्शं । ता शंवाहके जूदिअले शक्कशमणके शंवुत्तेति शुमलिदव्वा अज्जआए एदे अक्कलु । [ आर्यया निपुणं प्रत्यादिष्टोऽस्मि । कथं प्रत्युपकरिष्ये ?। आर्ये! अहमेतेन द्यूतकरापमानेन शाक्यश्रमणको भविष्यामि । त्संवाहको द्यूतकरः शाक्यश्रमणकः संवृत्त इति स्मर्तव्यान्यार्ययैतान्यक्षराणि । ] ।

 वसन्तसेना--अज्ज ! अलं साहसेण । [ आर्य ! अलं साहसेन ।]

 संवाहकः---अज्जए । कले णिञ्चए, ( इति परिकम्य )

जुदेण तं कदं में जं वीहत्थं जणश्श शव्वश्श ।
एणहिं पाअडशीशे णलिन्दमग्गेण विहलिश्शं ॥ १७ ॥


यस्य पार्श्वलभ्यमीदृशं तं संवाहकं कुलपुत्रम् । भूतो गण्डः । सुविधानमित्यर्थः । ’खण्ड’ इति मरहट्टप्रसिद्धः । तत्पुनरपि द्यूतं रमामहे ।। इयं कला संवाहक (न)- रूपा ॥ शुश्रूषितपूर्वः ॥ शक्कशमणके शाक्यभिक्षुः ॥ एतान्यक्षराणि । जूदेणेत्यादि । गाथा । द्यूतेन तत्कृतं मम सर्वस्माज्जनाद्विभ्यते यत्। 'यद्विभ्यतः