पृष्ठम्:मृच्छकटिकम्.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०
मृच्छकटिके

 माथुरः–सुहं तुए होदु । [ सुखं तव भवतु ।]  चेटी–अज्ज ! कदमो तुम्हाणं सहिओ [ आर्य ! कतरो युवयोः सभिकः ?।]

 माथुरः-

कस्स तुहुं तणुमज्झे अहरेण रददट्ठदुव्विणीदेण।
जम्पसि मणोहलवअणं आलोअंती कडक्खेण ॥ १६ ॥

णत्थि मम विहवो, अण्णत्त व्वज ।

[ कस्य त्वं तनुमध्ये अधरेण रतदष्टदुर्विनीतेन ।
जल्पसि मनोहरवचनमालोकयन्ती कटाक्षेण ॥

नास्ति मम विभवः, अन्यत्र व्रज ।]

 चेटी–जइ ईदिसाइं णं मंतेसि, ता ण होसि जूदिअरो । अत्थि को वि तुम्हाणं धारओ ? । [यदीदृशानि ननु मन्त्रयसि, तदा न भवसि द्यूतकरः । अस्ति कोऽपि युष्माकं धारकः ? ।]

 माथुरः--अत्थि, दशसुवण्णं धालेदि । किं तस्स ? । [अस्ति, दशसुवर्णं धारयति । किं तस्य ? ।]

 चेटी--तस्स कारणादो अज्जआ इमं हत्याभरणं पडिवादेदि । णहि णहि, सो ज्जेव पड़िवादेदि । [ तस्य कारणादार्येंदं हस्ताभरणं प्रति- पादयति । नहि नहि, स एव प्रतिपादयति ।]

 माथुरः----( सहर्ष गृहीत्वा ) अले, भणेशि तं कुलपुत्तं–“भूदं तुए गंथु । आअच्छ, पुणो जूदं रमह' । [अरे, भणसि तं कुलपुत्रम्- ‘भूतस्तव गण्डः। आगच्छ, पुनर्द्यूतं रमस्व'।]

( इति निष्कान्तौ )


कस्से तुहमित्यादि । गाथा । मनोहरमव्यक्तं यद्वचनं तन्मन्मनवचनम् । हेतनुमध्ये ! कस्य वं मन्मनवचनम् (१)। दुर्विनीतेन रतौ दृष्टेनाधरेण जल्पसि । अलोकयन्ती कटाक्षेण ॥ १६ ॥ मम विभवो नास्ति । अन्यत्र गच्छ॥ धारयति ।।