पृष्ठम्:मृच्छकटिकम्.pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६८
मृच्छकटिके

अज्जस्स बाधेदि । [ आर्यस्यात्मीयमेतद्गेहम् । चेटि ! देह्यस्यासनम् । तालवृन्तकं गृहाण । परिश्रम आर्यस्य बाधते ।]

( चेटी तथा करोति )

 संवाहकः-(स्वगतम् ) कधं अज्जचालुदत्तस्स णामशंकित्तणेण ईदिशे मे आदले । शाहु अज्जचालुदत्तो ! शाहु, पुहवीए तुमं एक्के जीवशि; शेषे उण जणे शशदि । ( इति पादयोर्निपत्य ) भोदु अज्जए ! भोदु; आशणे णिशीददु अज्जआ । [कथमार्यचारुदत्तस्य नामसंकीर्तनेनेदृशो म आदरः ? । साधु आर्यचारुदत्त ! साधु, पृथिव्यां त्वमेको जीवसिं । शेषः पुनर्जनः श्वसिति । भवत्वार्ये ! भवतु; आसने निषीदत्वार्या ।]

 वसन्तसेना---( आसने समुपविश्य ) अज्ज ! कुदो सो धणिओ है। [ आर्य । कुतः स धनिकः ।]

 संवाहकः--

शक्कालधणे खु शज्जणे काह ण होई चलाचले धणे ।
जे पूइदुं पि ण जाणादि शे पूआविशेशं पि जाणादि ॥ १५ ।।

[ सत्कारधनः खलु सज्जनः कस्य न भवति चलाचलं धनम् ।
य़ः पूजयितुमपि न जानाति स पूजाविशेषमपि जानाति ॥ ]

 वसन्तसेना--तदो तदो ? । [ ततस्ततः ? 1]

 संवाहकः--तदो तेण अज्जेण शवित्ती पलिचालके किदो म्हि । चालित्तावशेशे अ तस्सिं जूदोवजीवी म्हि शंवुत्ते । तदो भाअधेअविशमदाए दशशुवण्णअं जूदे हालिद । [ ततस्तेनार्येण सवृत्तिः परिचारकः


काकूक्त्या, अपि तु नैवेत्यर्थः । शक्कालधणे इत्यादि । मात्रासमकम् । प्रतिपादं 'चलाचले, धणे, से' इत्येकारत्रयं लधु छन्दोनुरोधात् । सत्कारधनः खलु सज्जनः कस्य च न भवति चलाचलं धनम् । यः पूजयितुमपि न जानाति स पूजाविशेषं जानाति; अपि तु न जानात्येव ॥ १५ ॥ ततस्तेनार्येण सवृत्तिः

कृतवर्तनः परिचारकः कृतः । चारित्र्यमात्रावशेषे धनशून्ये तस्मिन् ॥ वासपाद-