पृष्ठम्:मृच्छकटिकम्.pdf/७२

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
६४
मृच्छकटिके

 वसन्तसेना--अभअं सरणागदस्स हञ्जे ! ढक्केहि पक्ख- दुआरअं । [अभयं शरणागतस्य । चेटि ! पिधेहि पक्षद्वारकम् ।]

( चेटी तथा करोति )

 वसन्तसेना-कुदो दे भअं ? । [ कुतस्ते भयम् ? ।]

 संवाहकः---अज्जे ! धणिकादो । [ आर्ये ! धनिकात् । ]

 वसन्तसेना--हञ्जे ! संपदं अवाविणु पक्खदु[१]आरअं । [ चेटि !सांप्रतमपावृणु पक्षद्वारकम् ।]

 संवाहकः-( आत्मगतम् ) कधं धणिकादो तुलिदं शे भअकालणं ? । शुट्टु खु एवं वुञ्चदि,---

जे अत्तबलं जाणिअ भालं तुलिदं वहेइ माणुश्शे ।।
ताहं खलणं ण जायदि ण अ कंता[२]लगडे विवज्जदि ॥ १४ ॥

एत्थ लक्खिदम्हि । [कथं धनिकात्तलितमस्या भयकारणम् ? सुष्टु खल्वेवमुच्यते,-

ये आत्मबलं ज्ञात्वा भारं तु[३]लितं वहति मनुष्यः ।।
तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥

अन्न लक्षितोऽस्मि ।।

 माथुरः-( अक्षिणी प्रमृज्य, द्यूतकरं प्रति ) अले, देहि देहि । [अरे, देहि देहि ।]


जे अत्तयबलमित्यादि । वैतालीयं छन्दः । यो (य) आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः । तस्य स्खलनं न जायते न च कान्तारगतो विपद्यते ॥ १४ ॥ तुलितं कलितमिति वा पदान्त-' इति बिन्दोर्लंघुत्वं। वसन्तसेनाया अशक्यविषये व्यापार युक्तः ॥ गोहे मनुष्यः । तस्य दुरात्मनो माया


टिप्प- । । ।


  1. २ दृढं सशृङ्खलं विधेहीत्यर्थः
  2. ३ स्वानुरूपम्
  3. १ गड़े इत्येकारो लघुः पठनीयः, छन्दोनुरोधात्