पृष्ठम्:मृच्छकटिकम्.pdf/७१

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
६३
द्वितीयोऽङ्कः

 ( माथुरः संवाहकमाकृष्य धोणा[१]यां मुष्टिप्रहारं ददाति, संवाहकः सशोणितं मूर्च्र्छां नाट्न्भूमौ पतति, दर्दुरक उपसृयान्त[२]रयति; माथुरो दर्दुरकं ताडयति; दर्दुरको विप्रतीपं ताडयति )

 माथुर-—अले अले दुट्ट छिण्णालिआपुत्तअ ! फलं पि पाविहसि । [ अरे अरे दुष्ट पुंश्चलीपुत्रक ! फलमपि प्राप्स्यसि ।]

 दर्दुरकः-- अरे मूर्ख ! अहं त्वया मार्गगत एव ताडितः । श्वो यदि राजकुले ताडयिष्यसि, तदा द्रक्ष्यसि ।

 माथुरः--एसु पेक्खिस्सं । एष प्रेक्षिष्ये ।]

 दर्दुरकः----कथं द्रक्ष्यसि ? ।

 माथुरः—प्रसार्य चक्षु एवं पेक्खिस्सं । [ एवं प्रेक्षिप्ये ।]

 ( दर्दुरको माथुरस्य पांशुना चक्षुषी पूरयित्वा संवाहकस्यापक्रमितुं संज्ञां ददाति, माथुरोऽक्षिणी निगृह्य भूमौ पतति, संवाहकोऽपक्रामति )

 दर्दुरकः----{ स्वगतम् ) प्रधानसभिको माथुरो मया विरोधितः । तन्नात्र युज्यते स्थातुम् । कथितं च मम प्रियवयस्येन शर्विलकेन, यथा किल-आर्यकनामा गोपालदारकः सिद्धादेशेन समादिष्टो राजा भविष्यति ।' इति । सर्वश्चास्मद्विधो जनस्तमनुसरति । तदहमपि तत्समीपमेव गच्छामि । ( इति निष्क्रान्तः )

 संवाहकः---( सत्रासं परिक्रम्य, दृष्ट्वा ) एशे कश्श वि अणपावुदपक्खदुयालके गुहे । ता एत्थ पविशिश्शं । ( प्रवेशं रूपयित्वा, वसन्तसेनामालोक्य ) अज्जे । शलणागदे म्हि । [ एतत्कस्याप्यनपावृतपक्षद्वारकं गेहम् । तदत्र प्रविशामि। आर्ये ! शरणागतोऽस्मि ।]


वेश्या ॥ एतत्कस्याप्यपावृतपक्षद्वारं गेहम् । ढक्केहि पिधेहि ॥ तुलिदमाकलितम् ॥


  1. घोणायां नासाप्रप्रदेशे
  2. द्वयोर्मध्ये गत्वा व्यवधानं करोत्रीत्यर्थः