पृष्ठम्:मृच्छकटिकम्.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
मृच्छकटिके

भिसार्यमाणः प्रत्युपकारदुर्बलतया, मा तावत्, जनो दुर्लभदर्शनः पुनर्भविष्यति ।]

 मदनिका किं अदो ज्जेव सो अलंकारओ तत्प्त हत्थे णिकिखत्तो । [ किमत एव सोऽलंकारस्तस्य हस्ते निक्षिप्तः ।]

 वसन्तसेना–हञ्जे ! सुट्टु दे जाणिदं । [ चेटि ! सुष्टुत्वया ज्ञातम् ।]

(नेपथ्ये )

 अले भट्टा ! दशसुवण्णाह लुद्धु जूदकरु पपलीणु पपलीणु } ता गेण्ह गेण्ह । चिट्ठ चिट्ठ, दूलात्पदिट्टो सि । १ अरे भट्टारक ! दशसुवर्णस्य रुद्ध द्यूतकरः प्रपलायितः प्रपलायितः । तद्गृहाण गृहाण । तिष्ठ तिष्ठ, दूरात्प्रदृष्टोऽसि ॥ ]

( प्रविश्यापटीक्षेपेण संभ्रान्तः )

 संवाहकः--हीमाणहे, कट्टे एशे जुदिअलभावे ।

णवबंधणमुक्काए विअ
गद्दहीए हो तोडिदो म्हि गद्दहीए।
अंगलाअमुक्काए विअ शत्तीए
घडुक्को विअ घादिदो म्हि शत्तीए ॥ १ ॥


संबोधनम् । दशसुवर्णकृते लुद्धु रुद्धः । पपलीणु प्रपलायितः । दश सुवर्णा लभ्या यस्य पार्श्वे स द्यूतकरः प्रपलायितः । अतो गृहाण धारय । तिष्ठ तिष्ठ । दूरादेव दृष्टोऽसि । सभ्यानुद्दिश्य ब्रूते । 'लब्धः' इति पाढे दशसुवर्णानां द्यूतको लब्धः। प्रपलायित इत्यर्थः ॥ ‘हीमाणहे' इति विस्मये । कष्ट एष द्यूतकरभावः । णवबंधणेत्यादि । चित्रजातिः । गद्दहीए गर्दभीनामधेया। हा कष्टम् , ताडितोऽस्मि । गद्दहीति वराटिकानाम। गर्दभीशक्तिके आर्थी इति प्रसिद्धद्यूतके कपर्दकनामधेये । नवबन्धनान्मुक्तयेव गर्दभ्या पशुविशेषेण ताडितोऽस्मि गर्दभ्या। ताडनस्वभावा सा यतः । अङ्गराजेन कणेंन मुक्तयेव शक्त्या अस्त्रविशेषेण


टिप्प०-1 अयं मागधीभाषापाठकः, माथुरद्यूतकरौ ढक्कभाषापाठको