पृष्ठम्:मृच्छकटिकम्.pdf/६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

राजनि विज्ञापिते च "गलबद्धैस्तैरेव भूषणैस्तं दक्षिणश्मशानं नीत्वा शूले भङ्क्त" इति समादिशति भूपः शोधनकं च नयति तं चाण्डालाभ्यामित्यालेखितम् ॥

दशमेऽङ्के

राजनिदेशाद् वध्यस्थानं नीतः, सडिण्डिमं हन्तुमुद्धोषितो, दैववशाच्छिन्नबन्धनतया स्वीयप्रासादबालाग्रप्रतोलिकायां शकारेण मन्त्ररक्षणाय दण्डनिगडेन बद्ध्वा निक्षिप्तेन तदीयस्थावरकाभिधेयचेटेन परलोकजिगमिषुणा जीर्णगवाक्षात् कथंचित् पातितात्मना निर्दोषमुद्भावितोऽपि पश्चादागतेन सकपटं तदुक्तिमपलाप्य, ताताभिलाषेण संगन्तुमागतेन रोहसेनेन सहैव रिपुं मारयितुं प्रजल्पता, तदनु निजचेटमाक्रम्यैकान्तमधितिष्ठता शकारेण पुनस्तथैवापवादितः, प्रजिहीर्षद्भ्यां गृहीतपतितखङ्गाभ्यां चाण्डालाभ्यां शूलायामारोपयिषितस्त्वरितमागत्य वसन्तसेनां मेलयतः संवाहकश्रमणकात् स्वल्पानन्तरमेवार्यकेण यज्ञवाटस्थपालकं निघात्य निजमित्रमार्यकं राज्येऽभिषिच्यागतेन शर्विलकेनोपसेवितश्चारुदत्तोऽग्निप्रवेशाय व्यवसितां धूतां सत्वरं सम्भाव्य संवाहकं सर्वविहारेषु कुलपतित्वे, चन्दनकं पृथिवीदण्डपालकत्वे, स्थावरकं दास्यनिर्मुक्तौ, हन्तुं ग्रहीतुं शकारं पूर्वाधिकारे, चाण्डालौ स्वजात्याधिपत्ये, चार्यभूपतिमा नियोजयति शर्विलकेन सवधूशब्दोच्चारमवगुण्ठितां वसन्तसेनां अर्धाङ्गित्व इव निजपरिग्रहत्वे संगृह्णातीत्यानन्दपर्यवसायिकत्वेन सुजनमनोहारीदं प्रकरणं समापयति स कविवर्यः शूद्रकः ।