पृष्ठम्:मृच्छकटिकम्.pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
द्वितीयोऽङ्कः

 मदनिका—अज्जए ! सिणेहो पुच्छदि ण पुरोभाइदा, ता किं णेदं ? । [ आयें ! स्नेहः पृच्छति, न पुरोभागिता, तत्किं न्विदम् ।।]

 वसन्तसेना--मदणिए ! केरिसिं मं पेक्खसि ?।[ मदनिके! कीदृशीं मां प्रेक्षसे ?।।

 मदनिका—अज्जाआए सुण्णहिअअत्तणेण जाणामि हिअअगदं कंंपि अज्जआ अहिलसदि ति। [ आर्यायाः शून्यहृदयत्वेन जानामि हृदय- गतं कमप्यार्याभिलषतीति ।।

 वसन्तसेना–सुट्ठु तुए जाणिदं । परहिअअग्गहणपंडिआ मदणिआ खु तुमं । [ सुष्टु त्वया ज्ञातम् । परहृदयग्रहणपण्डिता मदनिका खलु त्वम् ।]

 | मदनिका----पिअं मे पिअं । कामो खु णाम एसो भअवं । अणुगहिदो महूसवो तरुणजणस्स । ता कधेदु अज्जआ, किं राआ॥ राअवल्लहो वा सेवीअदि ? । [ प्रियं में प्रियम् । कामः खलु नामैष भगवान् । अनुगृहीतो महोत्सवस्तरुणजनस्य । तत्कथयत्वार्या , किं राजा राजवल्लभो वा सेव्यते ? । ]

 वसन्तसेना‌--ह्ञ्जे! रमिदुमिच्छामि, ण सेविदुं। [ चेटि ! रन्तुमि- छामि, न सेवितुम् ।।

 मदनिका----विज्जाविसेसालंकिदो किं को वि बम्हणजुआ कामीअदि? । [विद्याविशेषालंकृतः किं कोऽपि ब्राह्मणयुवा काम्यते ?।]

 वसन्तसेना--पूअणीओ मे बम्हणजणो । [ पूजनीयो मे ब्राह्मण- जनः ।]


अज्ज वसन्तसेनैव । ण्हादा स्नाता । पूअं पूजाम् ॥ पुरोभाइदा पुरोभागिता दोषैकदर्शिता । ‘दोषैकदृक् पुरोभागी' इत्यमरः । दोषशून्यत्वेनेति भावः ॥ भअवं भगवान् । “भअवदा' इत्यपि पाठः । भगवता हरेण । स्वीकृतोऽनुगृहीतो