पृष्ठम्:मृच्छकटिकम्.pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
मृच्छकटिके

द्वितीयोऽङ्कः

( प्रविश्य )

 चेटी–अत्ताए अज्जआसआसं संदेसेण पेसिदम्हि । ता जाव पविसिअ अज्जआसआसं गच्छामि । ( परिक्रम्यावलोक्य च ) एसा अज्जआ हिअएण किंपि आलिहंती चिट्ठदि । ता जाव उषसम्पामि । [मात्रार्यसकाशं संदेशेन प्रेषितास्मि । तद्यावप्रविश्यार्यासंकाशं गच्छामि । एषार्या हृदयेन किमप्यालिखन्ती तिष्ठति । तद्यावदुपसर्पामि।]

( ततः प्रविशत्यासुनस्था सोत्कण्ठा वसन्तसेना मुदनिका च )

 वसन्तसेना-हञ्जे! तदो तदो १ । [ चेटि ! ततस्ततः ? ।।

 चेटी----अज्जए ण किंपि मंतेसि । किं तदो तदो ? । [ आर्ये । न किमपि मन्त्रयसि । किं ततस्ततः ? ।]

 वसन्तसेना—किं मए भणिदं ?। [ किं मया भणितम् ? ।]

 चेटी'—तदो तदो त्ति । [ ततस्तत इति ।]

 वसन्तसेना---( सभ्रूक्षेपम् ) आं, एव्वं । [ , एवम् ।]

( उपसृत्य )

 प्रथमा चेटी--अज्जए ! अत्ता आदिसदि--ण्हादा भविअ देव- दाणं पूअं णिव्वत्तेहि त्ति । [आर्ये ! माताऽऽदिशति-स्नाता भूत्वा देवतानां पूजां निर्वर्तय' इति ।]

 वसन्तसेना–हञ्जे ! विष्णवेहि अत्तं---‘अज्ज ण ण्हाइस्सं । ता म्हणो ज्जेव्व पूअं णिव्वत्तेदु त्ति । [चेटि ! विज्ञापय मातरम् अथ न स्नास्यामि । तद्ब्राह्मण एव पूजां निर्वर्तयतु' इति ।]

 चेटी---जं अज्जाआ आणवेदि । [यदार्याज्ञापयति ।]

( इति निष्क्रान्ता)


अत्ताए वसन्तसेनामात्रा। अज्जआसआसं वसन्तसेनासकाशम् । संदेशेन प्रयोजनार्थम् ॥ हञ्जे नीचे । “हञ्जे, ’तदो तदो' इत्युन्माददशारीत्युपन्यासः ॥


पाठा०---१ अज्जुआ.