पृष्ठम्:मृच्छकटिकम्.pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
प्रथमोऽङ्कः

 विदूषकः– ( जनान्तिकम् ) ही, ताओ खु अम्हाणं पदीविआओ अवमाणिदनिद्धणकामुआ विअ गणिआ णिस्सिणेहाओ दाणिं संवुत्ता । [ आश्चर्यम्, ताः खल्वस्माकं प्रदीपिका अपमानितनिर्धनकामुका इव गणिका निःस्नेहा इदानीं संवृत्ताः ।]

 चारुदत्तः– मैत्रेय ! भवतु, कृतं प्रदीपिकाभिः । पश्य,–

उदयति हि शशाङ्कः कामिनीगण्डपाण्डु
र्ग्रहगणपरिवारो राजमार्गप्रदीपः।
तिमिरनिकरमध्ये रश्मयो यस्य गौराः
स्रुतजल इव पङ्के क्षीरधाराः पतन्ति ॥ ५७ ॥

(सानुरागम् ) भवति वसन्तसेने ! इदं भवत्या गृहम् । प्रविशतु भवती ।

(वसन्तसेना सानुरागमवलोकयन्ती निष्क्रान्ता ) ।

 चारुदत्तः– वयस्य ! गता वसन्तसेना, तदेहि । गृहमेव गच्छावः ।

राजमार्गो हि शून्योऽयं रक्षिणः संचरन्ति च ।
वञ्चना परिहर्तव्या बहुदोषा हि शर्वरी ॥ ५८ ॥

( परिक्रम्य ) इदं च सुवर्णभाण्डं रक्षितव्यं त्वया रात्रौ, वर्धमानके- नापि दिवा।

 विदूषकः– जधा भवं आणवेदि । [ यथा भवानाज्नापयति । ]

( इति निष्क्रान्तौ )

इति मृच्छकटिकेऽलंकारन्यासो नाम प्रथमोऽङ्कः ।


ही आश्चर्ये । यत एव निर्धनोऽत एवापमानितः । निःस्नेहा निस्तैलाश्च । स्नॆहो- नुरागस्तैलं । च संवुत्ताः संवृत्ताः । भवत्वित्युपसंहारोक्तिः । उदयतीति । यस्य हिमांशोस्तमोवृन्दमध्ये शुभ्रा रश्मयः पतन्ति । यथा प्रभूत जले कर्दमे दुग्धधाराः ॥ ५० ॥ राजमार्ग इति ॥ ५८ ॥

इति महोपाध्यायश्रीपृथ्वीधरकृतौ  मृच्छकटिकविवृतौ
न्यासार्पणो नाम प्रथमोऽङ्कः ।