पृष्ठम्:मृच्छकटिकम्.pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
मृच्छकटिके

 विदूषकः – (अपवार्य ) जइ एव्वं ता चोरेहिं अवहरीअदु । [ यद्येवं तदा चॊरैरपह्र्रियताम् । ]

 चारुदत्तः – अचिरेणैव कालेन ।

 विदूषकः– एसो से अम्हाणं विण्णासो । [ एषोऽस्या अस्माकं विन्यासः ।।

 चारुदत्तः– निर्यातयिष्ये ।

 वसन्तसेना– अज्ज ! इच्छे अहं, इमिणा अज्जॆण अणुगच्छिज्जंती सकं गेहं गंतुं । [ आर्य ! इच्छाम्यहमनेनार्य़ॆणानुगम्यमाना । स्वकं गेहं गन्तुम् । ]

 चारुदत्तः– मैत्रेय ! अनुगच्छ तत्रभवतीम् ।

 विदूषकः– तुमं ज्जॆव्व एदं कलहंसगामिणीं अणुगच्छंतो राअ- हंसॊ विअ सोहसि । अहं उण बम्हणो तहिं जणेहिं चउप्पहोवणीदो उवहारो कुकुरेहिं विअ खज्जमाणो विवज्जिस्सं । [त्वमेवैतां कलहंसगामिनीमनुगच्छन् राजहंस इव शोभसे। अहं पुनर्ब्राह्मणो यत्र तत्र जनैश्चतुष्पथोपनीत उपहारः कुकरैरिव खाद्यमानो विपत्स्ये ।]

 चारुदत्तः– एवं भवतु ।स्वयमेवानुगच्छामि तत्रभवतीम् । तद्राजमार्गविश्वासयोग्याः प्रज्वाल्यन्तां प्रदीपिकाः ।

 विदूषकः – वढ्ढमाणआ  ! पज्जालेहि पदीविआओ । [वर्धमानक ! प्रज्वालय प्रदीपिकान् ।]

 चॆटी– (जनान्तिकम्) अले, तेल्लेण विणा पदीविआओ पज्जालीअंति । [ अरे, तैलेन विना प्रदीपिकाः प्रज्वाल्यन्ते ।]


ग्यता ॥ आर्य ! पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु ॥ अत्यन्तप्रश्रयवत्वादनुग्रहः ॥ चोरेहिं अवहरीअदु इति संधिच्छेदनाम्नस्तृतीयाङ्कस्य सूचनम् ॥ सकं स्वकम् ॥ चतुश्पथोपनीत इवोपहारो देवताबलिरूपः खाद्यमानो विपत्स्ये ॥

टिप्प० -  १-मैत्रेयेण. २-देवताबलिः.