पृष्ठम्:मृच्छकटिकम्.pdf/५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
४४
मृच्छकटिके

 विदूषकः—ता जइ मम हत्थे सअं ज्जेव्व पट्ठाविअ एणं समप्पेसि, ता अधिअरणे ववहारं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविस्सदि। अण्णधा आमरणं वैरं हुविस्सदि। [तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति। अन्यथाऽऽमरणं वैरं भविष्यति।]

 चारुदत्तः—(सावज्ञम्) अज्ञोऽसौ। (स्वगतम्) अये, कथं देवतोपस्थानयोग्या युवतिरियम्?। तेन खलु तस्यां वेलायाम्,—

प्रविश गृहमिति प्रतोद्यमाना
न चलति भाग्यकृतां दशामवेक्ष्य।
पुरुषपरिचयेन च प्रगल्भं।
न वदति यद्यपि भाषते बहूनि॥५६॥

(प्रकाशम्) भवति वसन्तसेने। अनेनाविज्ञानादपरिज्ञातपरिजनोपचारेणापराद्धोऽस्मि। शिरसा भवतीमनुनयामि।

 वसन्तसेना—एदिणा अणुचिदभूमिआरोहणेण अवरद्धा अज्जं सीसेण पणमिअ पसादेमि। [एतेनानुचितभूमिकारोहणेनापराद्धाऽऽर्यं शीर्षेण प्रणम्य प्रसादयामि।]

 विदूषकः—भो, दुवे वि तुम्हे सुखं पणमिअ कलमकेदारा अण्णोण्णं सीसेण सीसं समाअदा। अहं पि इमिणा करहजाणुसरि-


भवति॥५५॥ एषेत्यादि पूर्वोक्तमेव भणति। अलंकृतास्मीति। ममान्यत्राभिलाषो नास्तीत्यर्थः। देवतेवोपस्थानं यस्याः सा। प्रविश अहमिति।


पाठा०-१ सुसंपण्णा विअ कलम०, २ उट्ठेध त्ति.


टिप्प०-1 प्राकृते द्विवचनं नास्ति, अत एव न भाषायाम्, प्राकृतस्य भाषात्वात्।