पृष्ठम्:मृच्छकटिकम्.pdf/५०

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
४२
मृच्छकटिके

 वसन्तसेना—(स्वगतम्) कधं परिअणो त्ति मं अवगच्छदि। (प्रावारकं गृहीत्वा समाघ्राय च स्वगतं सस्पृहम्) अम्महे, जादीकुसुमवासिदो पावारओ। अणुदासीणं से ज्जोव्वणं पडिभासेदि। [कथं परिजन इति मामवगच्छति। आश्चर्यम्, जातीकुसुमवासितः प्रावारकः। अनुदासीनमस्य यौवनं प्रतिभासते।]

(अपवारितकेन प्रावृणोति)

 चारुदत्तः—ननु रदनिके! रोहसेनं गृहीत्वाभ्यन्तरं प्रविश।

 वसन्तसेना—(स्वगतम्) मंदभाइणी खु अहं तुह अब्भंतरस्स। [मन्दभागिनी खल्वहं तवाभ्यन्तरस्य।]

 चारुदत्तः—ननु रूदिनिके! प्रतिवचनमपि नास्ति। कष्टम्,—

यदा तु भाग्यक्षयपीड़ितां दशां
नरः कृतान्तोपहितां प्रपद्यते।
तदास्य मित्राण्यपि यान्त्यमित्रतां
चिरानुरक्तोऽपि विरज्यते जनः॥५३॥

(रदनिकामुपसृत्य )

 विदूषकः—भो, इअं सो रअणिआ। [भोः, इयं सा रदनिका।]

 चारुदत्तः—इयं सा रदनिका। इयमपरा का?।

  अविज्ञातावसक्तेन दूषिता मम वाससा।

 वसन्तसेना—(स्वगतम्) णं भूसिदा। [ननु भूषिता।]


मित्यर्थः। कुकुरैः कुकरीभिश्च शब्दायमानो यथा शृगालस्तथा स्वगृहं प्रयामि। विदूषकरदनिके कुक्कुरकुक्कुरीस्थाने॥५२॥ न खलु ते परिभवश्चारुदत्तस्य निवेदयितव्यः। दौर्गत्यपीडितस्य द्विगुणतरा पीडा भविष्यति। एवं ण्णेदं इति एवार्थे॥ रोहसेनश्चारुदत्तसुतः॥ अम्महे विस्मये। अनुदासीनं साभिलाषम्; तदनुरूपचेष्टायोगात्॥ अभ्यन्तरगमनस्याभागिनी; वेश्यात्वात्॥ यदेति।