पृष्ठम्:मृच्छकटिकम्.pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
प्रथमोऽङ्कः

 विटः— मूर्ख ! आर्यचारुदत्तः खल्वसौ,

दीनानां कल्पवृक्षः स्वगुणफलनतः सञ्जनानां कुटुम्बी
आदर्शः शिक्षितानां सुचरितनिकषः शील वेलासमुद्रः ।
सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्वो
ह्यॆकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छुसन्तीव चान्ये ४८

तदितो गच्छामः ।।

 शकारः— अगेण्हिअ वशंतशेणिअं ?। [ अगृहीत्वा वसन्तसेनाम् ?]

 विटः— नष्टा वसन्तसेना ।

 शकारः— कधं विअ ? । [ कथमिव ? । ]

 विटः

अन्धस्य दृष्टिरिव पुष्टिरिवातुरस्य
मूर्खस्य बुद्धिरिव सिद्धिरिवालसस्य ।
स्वल्पस्मृतेर्व्यसनिनः परमेव विद्या
त्वां प्राप्य सा रतिरिवारिजने प्रनष्टा ॥ ४९ ॥

 शकारः— अगेण्हिअ वशंतशेणिअं ण गमिश्शं । [ अगृहीत्वा वसन्तसेनां न गमिष्यामि ।।

 विटः— एतदपि न श्रुतं त्वया !

आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ५० ॥

 शकारः— यदि गच्छशि, गच्छ तुमं । इग्गे ण गमिश्शं । [ यदि गच्छसि, गच्छ त्वम् । अहं न गमिष्यामि ।]


पाण्डवः श्वेतकेतुः पुत्रॊ राधाया रावण इन्द्रदत्तः । आहो कुन्त्यास्तेन रामेण जातोऽश्वत्थामा धर्मपुत्रो जटायुः ॥ इदं व्यर्थं विरुद्धार्थम्। श्वेतकेतुरौद्दालकिर्दुर्वाससो मातुलः ऋषिविशेषः । इन्द्रदत्तो बृहत्कथाप्रलम्भके त्रिंशे संस्थितः ॥ ४७ ॥ दीनानामिति । सज्जनानां कुटुम्ब्युपजीव्यः ॥ ४८ ॥ अगृहीत्वा वसन्त- सेनाम् ॥ नष्टाऽदर्शनं गता । अन्धस्येति ॥ ४९ ॥ आलान इति

पाठा०—१ उषायास्तेन,