शकारः—(सासूयम्) किंणिमित्तं उण भावे! एदश्श दुश्टवडुअश्श किविणं अंजलिं कदुअ पाएशु णिवडिदे?। [किंनिमित्तं पुनर्भाव! एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः?।]
विटः—भीतोऽस्मि।
शकारः—कश्श तुम भीदे ?। [कस्मात्त्वं भीतः?।]
विटः—तस्य चारुदत्तस्य गुणेभ्यः।
शकारः—के विअ तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पिणत्थि। [के इव तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति।]
विटः—मा मैवम्,—
सोऽस्मद्विधानां प्रणयैः कृशीकृतो |
शकारः—(सामर्षम्) के शे गब्भदाशीअ पुत्ते?।
शूले विक्कंते पंडवे शेदकेदू |
[कः स गर्भदास्याः पुत्रः?
शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः। |
एतस्य दुष्टबटुकस्य पादयोर्निपतितः?। किविणं कृपणम्॥ के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति। यद्वा,—अण्हिअदव्वं पि आहिकद्रव्यमद्य भोक्तव्यमपीत्यर्थः।। स इति। प्रणयैः प्रार्थनाभिः। ‘स्नेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥ केशे गब्भदासीए पुत्ते शूले इत्यादि॥ श्लोको वैश्वदेव्या वृत्तेन। कः स गर्भदास्था जन्मदास्याः पुत्रः? शूरो बिकान्तः