पृष्ठम्:मृच्छकटिकम्.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
मृच्छकटिके


 विदूषकः—(सवैलक्ष्यम्) भो वअस्स! जइ मए गंतव्वं, ता एसा वि में सहाइणी रदणिआ भोदु। [भो वयस्य! यदि मया गन्तव्यम्, तदेषापि मम सहायिनी रदनिका भवतु।]

 चारुदत्तः—रदनिके! मैत्रेयमनुगच्छ।

 चेटी—जं अज्जो आणवेदि। [यदार्य आज्ञापयति।]

 विदूषकः—भोदि रदणिए! गेण्ह बलिं पदीवं च। अहं अवावुदं पक्खदुआरअं करेमि। (तथा करोति) [भवति रदनिके! गृहाण बलिं प्रदीपं च। अहमपावृतं पक्षद्वारकं करोमि।]

 वसन्तसेना—मम अब्भुत्रवत्तिणिमित्तं विअ अवावुदं पक्खदुआरअं। ता जाव पविसामि। (दृष्ट्वा) हद्धी इद्धी, कधं पदीवो। (पटान्तेन निर्वाप्य प्रविष्टा) [ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम्। तद्यावत्प्रविशामि। हा धिक् हा धिक्, कथं प्रदीपः।]

 चारुदत्तः—मैत्रेय! किमेतत्?।

 विदूषकः—अवावुदपक्खदुआरएण पिंडीभूदेण वादेण णिव्वाविदो पदीवो। भोदि रदणिए! णिक्कम तुमं पक्खदुआरएण। अहंपि अब्भंतरचदुस्सालादो पदीवं पज्जालिअ आअच्छामि। (इति निष्क्रान्तः) [अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः भवति रदनिके! निष्काम त्वं पक्षद्वारकेण। अहमप्यभ्यन्तरचतुःशालाः प्रदीपं प्रज्वाल्यागछामि।]


पुंलिङ्गत्वम्। यद्वा,—‘तमेवं भवमुत्पत्तिं स्मरामि' इति कुव्याख्या। सुहृन्मित्रम्। अतो हेतोः मयि विनष्टदेहे क्व यास्यसि त्वमिति मे चारुदत्तस्य चिन्ता॥३८॥ सहाइणी द्वितीया॥ अवावुदं अपा_तम्॥ अभ्युपपत्तिरनुग्रहः। स्थगितद्वारेणापसरणाभावत्पिण्डीभूतेनैकीभूतेन प्रतिबन्धकत्वात्। अपाते पक्षद्वारे सति