पृष्ठम्:मृच्छकटिकम्.pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
प्रथमोऽङ्कः

तस्य दरिद्रचारुदत्तस्यानुरक्ता न मां कामयते । वामतस्तस्य गृहम् । यथा तव मम च हस्तान्नैषा परिभ्रश्यति तथा करोतु भावः ।]

 विटः — ( स्वगतम्) यदेव परिहर्तव्यं तदेवोदाहरति मूर्खः । कथं वसन्तसेनार्यचारुदत्तमनुरक्ता ?। सुष्ठु खल्विदमुच्यते — रत्नं रत्नेन संगच्छते' इति । तद्गच्छतु, किमनेन मूर्खेण । (प्रकाशम् ) काणेलीमातः ! वामतस्तस्य सार्थवाहस्य गृहम् ।

 शकारः— अध इं । वामदो तश्श घलं । [ अथ किम् । वामतस्तस्य गृहम् ।]

 वसन्तसेना— (स्वगतम् ) अम्महे, वामदो तस्स गेहं त्ति जं सच्चं, अवरज्झंतेण वि दुज्जणेण उवकिदं, जेण पिअ- संगमं पाविदं । [आश्चर्यम्, वामतस्तस्य गृहमिति यत्सत्यम्, अपराध्य- तापि दुर्जनेनोपकृतम्, येन प्रियसंगमः प्रापितः । ]

 शकारः— भावे भावे ! बलिए खु अंधआले माशलाशिपविश्टा विअ मशिगुडिआ दीशंती ज्जेव्व पणश्टा वशंतशेणिआ । [ भाव भाव ! बलीयसि खल्वन्धकारे माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना । ]

 विटः— अहो, बलवानन्धकारः । तथा हि,—

आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।


गुणः खल्वनुरागस्य कारणम् , न पुनर्बलात्कारः ।। गर्भदासी जन्मप्रभृतिचेटी । तहा तस्य । वामतः पार्श्वॆ तस्य चारुदत्तस्य गृहम् । ततो यथा तव मम च हस्तान्नैषा प्रभ्रश्यति तथा करोतु भावः ॥ परिहर्तव्यम् । चारुदत्तवासॊऽतिनिकट इति वसन्तसेनायाः कथयितुं नार्हतीति तदेव च तेनोक्तम् । तद्वचनं परिहारविषयः । काणेलीमातः । ‘काणेली कन्यकामाता' इति देशीप्रकाशः। 'असती कणली' इत्येके ।। भाव ! बलीयानन्धकारः । माषराशिप्रविष्टेव मसीगुटिका दृश्यमानैव प्रनष्टा वसन्तसेना ॥ आलोकेति । आलोके दर्शने । विशाला


टिप्प — 1 चारुदत्तस्य