पृष्ठम्:मृच्छकटिकम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
मृच्छकटिके

अन्योन्यं प्रतिपक्षसंहतिमिमां लोकस्थितिं बोधय-
न्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ ५९॥

तथापीदमस्तु भरतवाक्यम्----

क्षीरण्यः सन्तु गावो, भवतु वसुमती सर्वसंपन्नसस्या,
पर्जन्यः कालवर्षी, सकलजनमनोनन्दिनो वान्तु वाताः।
मोदन्तां जन्मभाजः, सततमभिमता ब्राह्मणाः सन्तु सन्तः
श्रीमन्ताः, पान्तु पृथ्वीं प्रशमितरिपवो धर्मनिष्ठाश्च भूपाः ६०

( इति निष्क्रान्ताः सर्वे )

संहारो नाम दशमोऽङ्कः।


।। ५९ ॥ क्षीरिण्य इति ।। ६० ।।

मृच्छकटिकविवृत्तिरियं गणपतिचित्तान्तपारपर्यन्ता । पृथ्वीधरकृतिरुपनयतु संतोषं कृतिसमुद्रे ॥

इति दशमोऽङ्कः ॥

समाप्तोऽयं ग्रन्थः ।