पृष्ठम्:मृच्छकटिकम्.pdf/२९६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८८
मृच्छकटिके

दिष्टया भो व्यस1नमहार्णवादपारा-
दुत्तीर्णं गुणधृतया सुशीलवत्या ।
नावेव प्रियतमया चिरान्निरीक्ष्ये।
ज्योत्स्नाढ्यं शशिनमिवोपरागमुक्तम् ॥ १८ ॥

तत्कृतमहापातकः कथमिवैनमुपसर्पामि ? । ( अथवा) सर्वत्रार्जवं शोभते । (प्रकाशमुपसृत्य बद्धाञ्जलि.) आर्यचारुदत्त ।।

 चारुदत्तः-ननु को भवान् ।

 शर्विलकः---

येन ते भवनं भित्त्वा न्यासापहरणं कृतम् ।
सोऽहं कृतम2हापापस्त्वामेव शरणं गतः ॥ ४९ ।।

 चारुदत्तः-सखे ! मैवम् ; त्वयासौ प्रणयः कृतः । ( इति कण्ठे गृह्णाति )

 शर्विलकः---अन्यच्च,---

आर्यकेणार्यवृत्तेन कुलं मानं च रक्षता ।।
पशुवद्यक्ज्ञवाटस्थो दुरात्मा पालको हृतः ।। ५० ॥

 चारुदत्तः–किम् ।।

 शर्विलकः----

त्वद्यानं यः समारुह्य यतस्त्वां शरणं पुरा।।
पशुवद्धितते यज्ञे हतस्तेनाद्य पालकः ॥ ५१ ॥


हत्वेति ॥ ४७ ॥ दिष्ट्येति ॥ ४८ ॥ येनेति ॥ ४९ ॥ आर्यकेणेति । यज्ञवाटो यज्ञस्थानम् । एतच्चापरिच्छिन्नजनसंमर्देन प्रमादस्थानम् । तेन सर्वो टिप्प०-- अत्र व्यसनमेवापारो महार्णवः, तस्मात् गुणः रज्जुः; पक्षे,- वसन्तसेनानुरागः, नावेव प्रियतमया वसन्तसेनयोद्धतः । उपरागात् ग्रहणान्मुक्तं तेजस्विनं शशिनमिवेत्युपमानम् । 2 सुवर्णचौर्ये महापातकमिति स्मृतिवचनात् ‘कृतमहापाप' इत्युक्तम् । --



-