पृष्ठम्:मृच्छकटिकम्.pdf/२९५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
दशमोऽङ्कः

जयति वृष1भकेतुर्दक्षयज्ञस्य हन्ता
तदनु जयति मेत्ता षण्मुखः क्रौञ्चशत्रुः ।
तदनु जयति कृत्स्नां शुभ्रकैलासकेतुं
विनिहतवरवैरी चार्यको गां विशालाम् ॥ ४५ ॥

( प्रविश्य, सहसा )

 शर्विलकः---

हत्वा ते कुनृपमहे हि पालकं भो-
स्तद्राज्ये द्रुतमभिषिच्य चार्यकं तम् ।
तस्याक्ज्ञां शिरसि निधाय शेषभूतां ।
मोक्ष्येऽहं व्यसनगतं च चारुदत्तम् ॥ ४६ ॥

हत्वा रिपुं तं बलमन्त्रहीने पौरान्समाश्वास्य पुनः प्रकर्षात् ।
प्राप्तं समग्रं वसुधाधिराज्यं राज्यं बलारेरिव शत्रु2राज्यम् ॥ ४७ ॥

( अग्रतो निरूप्य ) भवतु; अत्र तेन भवितव्यम् , यत्रायं जनपदसमवायः । अपि नामायमारम्भः क्षितिपतेरार्यकस्यार्यचारुदत्तस्य जीवितेन सफलः स्यात् ।। ( त्वरिततरमुपसृत्य) अपयात जाल्माः । । ( दृष्ट्वा, सहर्षम् ) अपि ध्रियते चारुदत्तः सह वसन्तसेनया । संपूर्णाः खल्वस्मत्स्वामिनो मनोरथाः ।।


केणापि । न एतद्व्यतिरिक्तेनान्येत्यर्थः । न प्रत्यभिजानाति । निर्वेदः शान्तिः वैषयिकेच्छानिवृत्तिः ॥ किमेतत्किमेतदिति शत्रूणां क्रूरः कलकलः ॥ जयतीति । जयतिं सर्वोत्कर्षेण वर्धताम् ( वर्तते )। तदनु जयति आत्मसात्करोति ॥ ४५ ॥ हत्वेति । शेषभूतां पुष्पदामायमानाम् । गुणभूतामिति केचित् ॥ ४६ ॥ टिप्प-1 वृषभकेतुः शिवः, क्रौञ्जशत्रुरिति विशेषणं अभूतपराक्रमाभिप्रायम् । विनिहतः वरो वैरी पालकराज येन सः । सिद्धादिष्टराज्यलाभवान् यः स आर्यकः । 2 वसुधाया अधिराज्यं स्वाम्यं यस्मिन्नीदृशं संपूर्णं शत्रोः पालकराज्ञो राज्यं,

  • अखण्यडाज्ञाविण्यो हि राज्यम्' इति लक्षणलक्षितं राज्यं बलारेरिव इन्द्रस्य राज्यमिव,

पेन्द्रं पदमित्याशयः ।