पृष्ठम्:मृच्छकटिकम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
दशमोऽङ्कः

 वसन्तसेना--( सास्नमुत्थाय, पादयोर्निपत्य) अज्जचालुदत्त ! सा ज्जेव अहं पावा, जाए कारणादो इअं तुए असरिसी अवत्था पाविदा । [ आर्यचारुदत्त ! सैवाहं पापा, यस्याः कारणादियं त्वयासदृश्यवस्था प्राप्ता।]

( नेपथ्ये )

 अच्चरिअं अच्चरिअं, जीवदि वसंतसेना । [ आश्चर्यमाश्चर्य, जीवति वसन्तसेना । ] ( इति सर्वे पठन्ति )

 चारुदत्तः---( आकर्ण्य सहसोत्थाय स्पर्शसुखमभिनीय निमीलिताक्ष एव हर्षगद्गदाक्षरम् ) प्रिये ! वसन्तसेना त्वम् ? ।।</poem>}}}}

 वसन्तसेना--सा ज्जेवाहं मंदभाआ । [ सैवाहं मन्दभाग्या ।।

 चारुदत्तः--( निरूप्य, सहर्षम् ) कथं वसन्तसेनैव ? । ( सानन्दम् )

कुतो बाष्पाम्बुधाराभिः स्नपयन्ती पयोधरौ ।
मयि मृत्युवशं प्राप्ते विद्येवं समुपागता ।। ४१ ॥

प्रिये वसन्तसेने !

त्वदर्थमेतद्विनिपात्यमानं देहं त्वयैव प्रतिमोचितं मे।
अहो प्रभावः प्रियसंगमस्य मृतोऽपि को नाम पुनर्ध्रियेत १ ॥४२॥

अपि च प्रिये ! पश्य,

रतं तदेव वरवस्त्रमियं च माला
कान्तागमेन हि वरस्य यथा विभाति ।
एते च वध्यपदहध्वन्यस्तथैव ।
जाता विवाहपटहध्वनिभिः समानाः ॥ ४३ ॥

 वसन्तसेना-अदिदक्खिणदाए किं ण्णेदं ववसिदं अज्जेण ? । [ अतिदक्षिणतया किं न्विदं व्यवसितमार्येण ? ।]


॥ ४० ॥ कुत इति । विद्या इतरविविक्तात्मज्ञानम् ॥ ४१ ॥ त्वदर्थमिति टिप्पं०-1 'मृतसंजीविनी विद्या यथा मृत्युवशं प्राप्तं प्राणिनं जीवनदानहेतु-

त्वादानन्ददात्री भवति तथैव ममापि मरणसमये जीवनदात्रीत्वेन कुतस्त्वं समभ्यागतेत्यानन्दप्रचुरं चारुदतस्येदं भाषणम् ।