पृष्ठम्:मृच्छकटिकम्.pdf/२९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
मृच्छकटिके

 चारुदत्तः-किं बहुना । (“प्रभवति--' [१०॥३४] इत्यादि श्लोकं पठति )

 चाण्डाल-( खङ्गमाकृष्य ) अज्जचारूदत्त ! उत्ताणे भविअ समं चिट्ठ । एक्कप्पहालेण मालिअ तुमं शग्गं णेम्ह । [ आर्यचारुदत्त ! उत्तानो भूत्वा समं तिष्ठ । एकप्रहारेण मारयित्वा त्वां स्वर्गं नयामः ।]

( चारुदत्तस्तथा तिष्ठति )

 चाण्डाल---( प्रहर्तुमीहते, खङ्गपतनं हस्तादभिनयन् ) ही, कधं

आअट्ठिदे शलोशं मुट्ठीए मुट्टिणा गहीदे वि ।।
धलणीऐ कीश पडिदे दालुणके अशणिशण्णिहे खग्गे ॥ ३६ ॥

जधा एदं शवुतं, तधा तक्केमि ण विवज्जदि अज्जचालुदते त्ति । भअ- वदि शझवाणि ! पशीद पशीद । अवि णाम चालुदत्तश्श मोक्खे भये, तो अणुगहीदं तु चांडालउलं भवे । [ ही, कथम्

आकृष्टः सरोषं मुष्टौ मुष्टिना गृहीतोऽपि ।।
धरण्यां किमर्थं पतितो दारुणकोऽशनिसंनिभः खङ्गः ॥

यथैतत्संवृत्तम्, तथा तर्कयामि न विपद्यत आर्य चारुदत्त इति । भगवति सह्यवासिनि प्रसीद प्रसीद । अपि नाम चारुदत्तस्य मोक्षो भवेत् , तदानुगृहीतं त्वया चाण्डालकुलं भवेत् ।]

 अपरः--जधाण्णत्तं अणुचिट्ठम्ह । [ यथाज्ञप्तमनुतिष्ठायः ।]

 प्रथमः–भोदु, एवं कलेम्ह । [ भवतु, एवं कुर्वः ।]

( इत्युभौ चारुदत्तं शूले समारोपयितुमिच्छतः )


तोऽपि । धरण्यां किमिति निपतितो दारुणकोऽशनिसंनिभः खङ्गः १ ॥ ३६ ॥ सह्यवासिनि । सह्यः पर्वतविशेषः । तत्रस्थां दुर्गां स्वकुलदेवतां संबोधयति ।।