पृष्ठम्:मृच्छकटिकम्.pdf/२८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
दशमोऽङ्कः

 चाण्डालः---( अप्रतो दर्शयित्वा ) अले, एद दीशदि दक्खिणमशाणं, जे पेक्खिअ वज्झा झत्ति पाणाइं मुंचंति । पेक्ख पेक्ख ।

अद्धं कलेवलं पडिवुत्तं कति दीहगोमाआ ।।
अद्धं पि शूललग्गं वेशं विअ अट्टहाशश्श ॥ ३५ ॥

[अरे एतदृश्यते दक्षिणश्मशानम्, यत्प्रेक्ष्य वध्या झटिति प्राणान्मुञ्चन्ति । पश्य पश्य

अर्ध कलेवरं प्रतिवृत्तं कर्षन्ति दीर्धगोमायवः ।
अर्धमपि शूललग्नं वेश इवाट्टहासस्य ॥]

 चारुदत्तः--हा, हतोऽस्मि मन्दभाग्यः । ( इति सावेगमुपविशति ) शकारः-—ण दाव गमिश्शं । चालुदत्तकं वावादअंतं दाव पेक्खामि । ( परिक्रम्य, दृष्ट्वा ) कधं उवविश्टे ? । [न तविद्गमिष्यामि। चारुदत्तकं व्यापाद्यमानं तावत्पश्यामि । कथमुपविष्टः ? 1]

 चाण्डालः–चारुदत्ता ! किं भी देशि ? । [ चारुदत्त ! किं भीतोऽ- सि ?।]

 चारुदत्तः--( सहसोत्थाय) (‘मूर्ख ! न भीतो मरणादस्मि केवलं दूषितं यशः' [१०।२७] इत्यादि पुनः पठति )

 चाण्डालः–अज्जचालुदत्त ! गअणदले पडिवशंता चंदशुज्जा वि विपतिं लहंति, किं उण जणी मलणभीलुआ माणवा वा ? । लोए कोवि उट्ठिदो पडदि, कोवि पडिदोवि उट्ठेदि। उट्ठंतपडंताह वशणपाडिया शश्श उण अत्थि । एदाइं हिअए कदुअ संधालेहि अत्ताणअं । ( द्वितीयचाण्डालं प्रति ) एदं चउट्ठं घोशणट्ठाणं; ता उग्धोशम्ह । [आर्यचारुदत्त ! गगनतले प्रतिवसन्तौ चन्द्रसूर्यावपि विपत्तिं लभैते, किं


पनयतु ॥ ३४॥ गन्तव्यम् । तत्रैव मया मर्तव्यमित्यर्थः ॥ अर्धमिति