पृष्ठम्:मृच्छकटिकम्.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
दशमोऽङ्कः

 चारुदत्तः---भो भोः पौराः । ('मया खलु नृशंसेन- [९।३०, ३८ ] इत्यादि पुनः पठति )

 शकारः-वावादिदा । [ व्यापादिता ।

 चारुदत्तः-एवमस्तु ।

 प्रथमचाण्डालः–अले, तव अत्त वज्झपालिआ । [ अरे, तवात्र वध्यपालिका ।]

 द्वितीयचाण्डालः–अले, तव । [ अरे, तव ।।

 प्रथमः---अले, वझपालिआए लेक्खों कलेम्ह । ( इति बहुविध लेखकं कृत्वा )। अले, जदि मम केलिका वज्झपालिआ, तो चिट्ठदु दाव मुहुतअं । [ अरे, वध्यपालिकाया लेखं कुर्मः । अरे, यदि मदीया वध्यपालिका, तदा तिष्ठतु तावन्मुहूर्तकम् ]

 द्वितीयः—किंणिमित्तं ?। [किंनिमित्तम् ? ।}

 प्रथमः---अले, भणिदो म्हि पिदुणा शग्गं गच्छंतेण, जधा-- पुत्त वीरअ । जइ तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झं । [ अरे, भणितोऽस्मि पित्रा स्वगं गच्छता, यथा-पुत्र वीरक ! यदि तव वध्यपालिका भवति, मा सहसा व्यापादयसि वध्यम् ।

 द्वितीयः-अले, किंणिमित्तं ? । [ अरे, किंनिमित्तम् ? ।]

 प्रथमः----कदा वि कोवि शाहू अत्थं दइअ वज्झं मोआवेदि । कदावि लण्णो पुत्ते भोदि, तेण बद्धावेण शव्ववज्झाणं मोक्खे होदि ।


एतावता । एवमेवेत्यर्थः । इदानीमित्येके ॥ शङ्खलेन वध्यपटहवादनदण्डेन । तालिअ ताडयित्वा ॥ प्रापेति ॥ ३३ ॥ वज्झपालिआ वधपर्यायः ॥ अरे, तव ॥ वीरक इति चाण्डालनाम ।। बंधं खंडेदि बन्धमाच्छिद्य प्रसरति ॥ चालुदत्ताकं