पृष्ठम्:मृच्छकटिकम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
मृच्छकटिके

वेलायां कीदृशो भवेत् । कथं एष स नवबलीवर्द इव मण्डितो दक्षिणां दिशं नीयते ।। अथ किंनिमित्तं मदीयायाः प्रासादबालाग्रप्रतालिकायाः समीपे घोषणा निपतिता, निवारिता च ।। कथं स्थावरकश्चेटोऽपि नास्तीह ? । मा नाम तेनेतो गत्वा मन्त्रभेदः कृतो भविष्यति । तद्यावदेनमन्विष्यामि ।

( इत्यवतीर्योपसर्पति )

 चेटः-( दृष्ट्वा ) भश्टालका ! एशे शे आगदे । [भट्टारकाः ! एष स आगतः ।]

 चाण्डालौ----

ओशलध देध मग्गं दालं ढक्केध होध तुण्हीआ ।
अविणअतिक्ख विशाणे दुट्ठबइल्ले इदो एदि ॥ ३० ॥

[ अपसरत दत्त मार्ग द्वारे पिधत्त भवत तूष्णीकाः ।।
अविनयतीक्ष्णविषाणो दुष्टबलीवर्द इत एति ॥]

 शकारः-अले अले । अंतलं अंतलं देध । (उपसृत्य ) पुश्तका थावलका चेडा ! एहि गच्छम्ह । [ अरे अरे, अन्तरमन्तरं दत्त । पुत्रक स्थावरक चेटक ! एहि गच्छावः ।]

 चेटः–ही ही, अणज्ज ! वशंतशेणियं मालिअ ण पलितुश्टेशि । शंपदं पणइजणकम्पपादवं अज्जचालुदत्तं मालइदुं ववशिदेशि ? । [ ही ही, अनार्य ! वसन्तसेनां मारयित्वा न परितुष्टोऽसि ? सांप्रत प्रणयिजन- कल्पपादपमार्यचारुदत्तं मारयितुं व्यवसितोऽसि ।।]

 शकारः---ण हि लअणकुंभशलिशे हग्गे इश्थिअं वावादेमि । [न हि रत्नकुम्भसदृशोऽहं स्त्रियं व्यापादयामि ।।  सर्वे---अहो, तुए मारिदा। ण अज्जचारुदत्तेण । [ अहो, त्वया भारता, न आर्यचारुदत्तेन ।]


वृषभ इव मण्डितः । वृषभशब्दः संभवन्नपि शकारभाषात्वात्त्यक्तः । कडे भवी- अदि कुतो भविष्यति । भोशलधेति । गाथा । उत्सर्पत ददत मार्गं द्वारं 4