पृष्ठम्:मृच्छकटिकम्.pdf/२८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२०
मृच्छकटिके

विटः—वसन्तसेने!

किं त्वं पदैर्मम पदानि विशेषयन्ती
व्यालीव यासि पतगेन्द्रभयाभिभूता।
वेगादहं प्रविसृतः पवनं न रुन्ध्यां
त्वन्निग्रहे तु वरगात्रि! न मे प्रयत्नः॥ २२

शकारः—भावे भावे!

एशा णाणकमूशिकामकशिका मच्छाशिका लाशिका
णिण्णाशा कुलणाशिका अवशिका कामस्स मंजूशिका।
एशा वेशवहू शुवेशणिलआ वेशंगणा वेशिआ
एशे शे दशणामके मयि कले अज्जावि मं णेच्छदि॥ २३

[भाव भाव!

एषा नाणकमोषिकामकशिका मत्स्याशिका लासिका
निर्नासा कुलनाशिका अवशिका कामस्य मञ्जूषिका।
एषा वेशवधूः सुवेशनिलया वेशाङ्गना वेशिका
एतान्यस्या दश नामकानि मया कृतान्यद्यापि मां नेच्छति॥


व्यर्थेकामपार्थं भवति हि वचनं शकारस्य ॥ इति ॥ ३१ ॥ विशेषयन्ती अतिशयाना । व्याली सर्पी । प्रविसृतः प्रचलितः । वातं न निरुणध्मि, अपि तु रुणध्म्येव। नकारः काकौ ॥ २२ ॥ 'भावो विद्वान्' इत्यमरः ॥ एशा णाणक्रेत्यादि । शार्दूलविक्रीडितच्छन्दसा श्लोकः । एषा । नाणं शिवाङ्कं टङ्ककादिवित्तं तस्य मोषणशीलः कामो यस्य तस्य कशिका चर्मकाष्टिका । चौराणां किंचित्तया चोपकरणं भवति । तदत्र कशोक्ता । कशा चाश्वताड़नी । चर्मसडिकोच्यते । मच्छाशिका मत्स्यभक्षिका । “मच्छं शुष्कमांसम्' इत्येके । लाशिका नर्तकी। णिण्णाशा निम्ननासा । कुलणाशिका कुलं कुलं वंशस्तन्नाशयति पातियजननात् । ‘णीशाशा' इति पाठे नि:स्वानामाशा (?) । कुलनाशिकेत्यर्थः । अवशिकाऽनायत्ता दानेनापि कस्याप्यायत्ता न भवति । कामस्य मञ्जूषिका पात्रविशेषः। कन्दर्पभाजनमिव, वर्तुलीभूतः काम इवेत्यर्थः । एषा वेशवधूः ।


पाडा०-१ निरुन्ध्यां